त्यज चक्रवाकि शोकं बधान धैर्यं सहस्व समयममुम्। जयमेव वासरमणिर्हरिष्यते शापमूर्छां ते॥ 179 ॥ अस्तङ्गतोऽयमरविन्दवनैकबन्धुर्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम्। हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु दीनचित्ताः॥ 180 ॥