०६ मयूरः

अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण।
नाहं जलधर भवतश्चातक इव जीवनं याचे॥ 169 ॥
यत्नादपि कः पश्यति शिखिनामा1हारनिर्गमस्थानम्।
2यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः॥ 170 ॥

वेगज्वलद्विटपिपुञ्जमहारयोऽयं गर्जिर्न तीव्रतरहेतिरियं न 3शम्पा।
दावाग्निधूमनिवहोऽयमये न मेघः किं नृत्यसि द्रुतमितो व्रज तत्कलापिन्॥ 171 ॥

अस्मान्विचित्रवपुषस्तव पृष्ठलग्नान्कस्माद्विमुञ्चति भवान्यदि वा विमुञ्च।
रे नीलकण्ठ गुरुहानिरियं तवैव मौलौ पुनः क्षितिभृतो भविता स्थितिर्नः॥ 172 ॥
अये नीलग्रीव क्व नु खलु सखे तेऽद्य मुनयः परं तोषं येषां तव रवविलासो वितनुते।
अमी दूरात्क्रूराः क्वणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुङ्खितशराः॥ 173 ॥
समन्तादाक्रान्ता दवदहनसङ्घैः शिखरिणः किरातैराकीर्णाः करकलितकाण्डैर्वनभुवः।
बिडालैरालीढाः सपदि सरसीनां परिसराः शिखण्डी पाण्डित्यं निजमहह कुत्र प्रकटयेत्॥ 174 ॥
एतस्मिन्मलयाचले बहुविधैः किं तैरकिञ्चित्करैः काकोलूककपोतकोकिलकुलैरेकोऽपि पार्श्वस्थितः।
केकी4 कूजति चेत्तदा विघटि5तव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः॥ 175 ॥

हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरस्थैरपि।
एकेनापि तलस्थितेन नदता श्रीखण्ड निस्तर्जनाद्व्यालानां च शिखण्डिना न तु महत्पाण्डित्यमुद्दण्डितम्॥ 176 ॥
किं दूरेण पयोधरा उपरि किं नान्यै रटन्तः श्रुता निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा।
रम्यं वा गगने न किं विहरणं किं तूग्रकाकावलीपर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः॥ 177 ॥
केका कर्णामृतं ते सकुसुमकबरीकान्तिहाराः कलापाः कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः।
विश्वद्वेषिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः कैः पुण्यैः प्राप्तमेतत्सकलमपि सखे चित्रवृत्तं मयूर॥ 178 ॥


  1. गुदस्थानम्. ↩︎

  2. मेघनादेन सञ्जातानन्दाः. ↩︎

  3. विद्युत्. ↩︎

  4. मयूरः. ↩︎

  5. विघटितं व्यालावलीनां बन्धनं यस्य. ↩︎