एक एव खगो मानी चिरं जीवतु चातकः।
म्रियते वा पिपासायां याचते वा पुरन्दरम्॥ 148 ॥
पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा।
नवमेघोज्झिता चास्य धारा निपतिता मुखे॥ 149 ॥
शक्यते येन केनापि जीवनेनैव जीवितुम्।
किंन्तु कौलव्रतोद्भङ्गप्रसङ्गः परदुःसहः॥ 150 ॥
अवश्यकारणैः प्राणान्धारयत्येव चातकः।
प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते॥ 151 ॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या।
इह हि भविष्यति भवतो नयनयुगादेव वारिणां पूरः॥ 152 ॥
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम्।
तदपि न कुप्यति जलदो गतिरिह नान्या यतस्तस्य॥ 153 ॥
दीनोन्नतचलपक्षतया बह्वपि लब्धमस्तु।
चातक सत्सम्भावनया किमपि यदस्ति तदस्तु॥ 154 ॥
विश्वोपजीव्ये न पिबत्यपोऽयं पद्माकरे यद्यपि चातकश्चेत्।
स्वार्थक्षतिस्तस्य तृषातुरस्य लघुत्वमेवास्ति न किञ्चिदस्य॥ 155 ॥
ऊर्ध्वीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम्।
अत्यूर्जितं गर्जितमात्रमस्मिन्नम्भोधरे बिन्दुलवस्तु दूरे॥ 156 ॥
वृथा गतं नृत्यसि चातक त्वं न नीलमेघोऽथ गजो मदान्धः।
स त्वादृशेभ्यो न ददाति नूनं मातङ्गदानं मधुपेभ्य एव॥ 157 ॥
आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः।
नास्ति क्षतिर्नोपचितिः कदापि पयोदवृत्तेः खलु चातकस्य॥ 158 ॥
रक्ताब्जपुञ्जरजसारुणितान्विमुच्य स्वच्छान्सुधासमरसानपि वारिराशीन्।
यच्चातकः पिबति वारिधरोदबिन्दून्मन्ये तदान1तिभयाच्छिरसोऽभिमानी॥ 159 ॥
अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसन्निवेशाः।
कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरन्दरीं2 यदभिवाञ्छति वारिधाराम्॥ 160 ॥
धिग्वारिदं 3परिहृतान्यजलाशयस्य यच्चातकस्य कुरुते न तृषाप्रशान्तिम्।
धिक्चातकं तमपि योऽर्थितयास्त4लज्जस्तं तादृशं च यदुपैति पिपासितोऽपि॥ 161 ॥
अये वापीहंसा निजवसतिसङ्कोचपिशुनं कुरुध्वं मा चेतो वियति वहतो वीक्ष्य विहगान्।
अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो निरीहाणां येषां तृणमिव भवन्त्यम्बुनिधयः॥ 162 ॥
बीजैरङ्कुरितं लताभिरुदितं वल्लीभिरुज्जृम्भितं कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति।
भ्रातश्चातक पातकं किमपि ते सम्यङ् न जानीमहे येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः॥ 163 ॥
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक किं वृथा विरुदितैः खिन्नोऽसि विश्रम्यताम्।
मेघः शारद एष 5काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति॥ 164 ॥
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो यश्च प्रार्थयते परं दलयति श्रोत्रं निजैर्गर्जितैः।
सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः॥ 165 ॥
रे रे चातक सावधानमनसा मित्त्र क्षणं श्रूयतामम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशः।
केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः॥ 166 ॥
वापी स्वल्पजलाशयो विषमयो नीचावगाहो ह्रदः क्षुद्रात्क्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः।
गङ्गाद्याः सरितः पयोनिधिगताः सन्त्यज्य तस्मादिमान् सम्मानी खलु चातको जलमुचामुच्चैः पयो वाञ्छति॥ 167 ॥
अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीकूपतडागसागरजले मज्जन्ति दत्तादराः।
मामद्यापि न वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन्नान्यं वाञ्छति नोपसर्पति न च प्रस्तौति न ध्यायति॥ 168 ॥