समुद्गिरसि किं वाचः पुंस्कोकिल सुकोमलाः।
श्वभ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे॥ 115 ॥
तवैतद्वाचि माधुर्यं जाने कोकिल कृत्रिमम्।
प्रपोषितो यैस्तानेव जातपक्षो जहासि यत्।1॥ 116 ॥
रसालशिखरासीनाः शतं सन्तु पतत्रिणः।
तन्मञ्जरीरसामोदं विदुरेव कुहूमुखाः॥ 117 ॥
भद्रं भद्रं कृतं मौनं कोकिलैर्जलदागमे।2
3वक्तारो दर्दुरा यत्र तत्र मौनं हि शोभते॥ 118 ॥
शृगालशशशार्दूलदूषितं दण्डकावनम्।
पञ्चमं गायतानेन कोकिलेन प्रतिष्ठितम्॥ 119 ॥
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥ 120 ॥
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः।
यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते॥ 121 ॥
कोकिलोऽहं भवान्काकः समानः कालिमावयोः।
अन्तरं कथयिष्यन्ति काकलीकोविदाः पुनः॥ 122 ॥
सहकारे चिरं स्थित्वा सलीलं बालकोकिल।
तं हित्वाद्यान्यवृक्षेषु विचरन्न विलज्जसे॥ 123 ॥
कलकण्ठ यथा शोभा सहकारे भवद्गिरः।
खदिरे वा पलाशे वा किं तथा स्याद्विचारय॥ 124 ॥
कोकिल कलमालपैरलमलमालोकसे रसालं किम्।
शरनिकरभरितशरधिः शबरः 4सरतीह 5परिसरे सधनुः॥ 125 ॥
तत्किं स्मरसि न भुक्तं यत्पिक6 रे काकमन्दिरे पूर्वम्।
सहकारकुसुमकाले हठेन कुरुषेऽधुना रावम्॥ 126 ॥
तावत्कोकिल विरसान्यापय7 दिवसान्वनान्तरे निवसन्।
यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति॥ 127 ॥
एकस्त्वं गहनेऽस्मिन्कोकिल न कलं कदाचिदपि कुर्याः।
साजात्यशङ्कयामी न त्वां निघ्नन्तु निर्दयाः काकाः॥ 128 ॥
अथ कोकिल कुरु मौनं जलधरसमयेऽपि पिच्छिला भूमिः।
विकसति कुटजकदम्बे वक्तरि भेके कुतस्तवावसरः॥ 129 ॥
मलिनात्मना विरागः प्रकटीकृत एव कोकिलकलेन।
जीवनदानामुन्नतिसमये वाचंयमीभवता॥ 130 ॥
रे रे कोकिला मा भज मौनं किञ्चिदुदञ्चय पञ्चमरागम्।
नो चेत्त्वामिह को जानीते काककदम्बकपिहिते चूते॥ 131 ॥
अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन।
एते हि दैवहतकास्त1दभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः॥ 132 ॥
रे बालकोकिल करीरमरुस्थलीषु किं दुर्विदग्धमधुरध्वनिमातनोषि।
अन्यः स कोऽपि 2सहकारतरुप्रदेशो राजन्ति यत्र तव विभ्रमभाषितानि॥ 133 ॥
किं कोमलैः कलरवैः पिक तिष्ठ तूष्णीमेते तु पामरनराः स्वरमाकलय्य।
को वा रटत्ययमये निकटे कटूनि रे वध्यतामिति वदन्ति गृहीतदण्डाः॥ 134 ॥
तावच्चकोरचरणायुधचक्रवाकपारावतादिविहगाः कलमालपन्तु।
यावद्वसन्तरजनीघटिकावसानमासाद्य कोकिलयुवा न कुहूकरोति॥ 135 ॥
येनोषितं रुचिरपल्लवमञ्जरीषु श्रीखण्डमण्डलरसालवने सदैव।
दैवात्स कोकिलयुवा निपपात निम्बे तत्रापि रुष्टबलिपुष्टकुलैर्विवादः॥ 136 ॥
हे कोकिलाखिललतासु फलानि सन्ति सन्त्यज्य तानि ननु चूतलतां सपुष्पाम्।
किं काङ्क्षसीह रमितुं फलभोक्तुकामो न ज्ञायसे नृपतिसेवकभीषणीयाम्॥ 137 ॥
परभृतशिशो मौनं तावद्विधेहि नभस्तलोत्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमा।
ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षणध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः॥ 138 ॥
अहंयुवरवर्णिनीजनमदायतोदव्रतस्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः।
रसालतरुमा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्यमुद्वीक्षते॥ 139 ॥
क्वचिज्झिल्लीनादः क्वचिदतुलकाको3लकलहः क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः।
क्वचिद्धोरः फेरु4ध्वनिरयमहो दैवघटनात्कथञ्कारं तारं5 रसति6 चकितः कोकिलयुवा॥ 140 ॥
मूकीभूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम्।
यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्पांशूत्तंससृतो निदाघदिवसः सन्तापसन्दायिनः॥ 141 ॥
येनानन्दमये वसन्तसमये सौरभ्यहेलामिलद्भृङ्गालीमुखरे रसालशिखरे नीताः पुरा वासराः।
आः कालस्य वशेन कोकिलयुवा सोऽप्यद्य सर्वा दिशः खेलद्वायसचञ्चुघातविदलन्मूर्धा मुहुर्धावति॥ 142 ॥
7दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः1 कादम्बाः2 क3लमालपन्तु मधुरं कूजन्तु को यष्टयः4।
दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्निर्विण्णः कुटजेषु कोकिलयुवा सञ्जातमौनव्रतः॥ 143 ॥
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्घ्यो गुणस्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे।
प्रोद्दामद्रुमसङ्कटे कटुरटत्काकावलीसङ्कुलः कालोऽयं शिशिरस्य सम्प्रति सखे नायं वसन्तोत्सवः॥ 144 ॥
अम्भोजप्रकरोऽथ केतककुलं कुन्दोत्करः कैरवव्रातो मल्लिगणोऽथ चम्पकचयो जातीसमूहोऽथवा।
नो चेदादरमातनोति पिक ते खेदं वृथा मा कृथा यस्मात्क्वापि कदापि कोऽपि भविता यस्त्वद्गुणाञ्ज्ञास्यति॥ 145 ॥
आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य तन्मञ्जरीं मैवं पञ्चममञ्च नन्दनवनभ्रान्त्या तया कोकिल।
एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानैर्बधिरीकरिष्यति वृथा श्रोत्राणि सत्पत्त्रिणाम्॥ 146 ॥
उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्राङ्कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले।
सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवक्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः॥ 147 ॥