1सरजस्कां पाण्डुवर्णां कण्टकप्रकराङ्किताम्।2
3केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप4॥ 41 ॥
फलानां च दलानां च सन्तु ते ते विवेकिनः।
मकरन्दविशेषज्ञो मिलिन्दमपहाय कः॥ 42 ॥
पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यलिः।5
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति॥ 43 ॥
क्वचित्क्वचिदयं यातु स्थातुं प्रेमवशंवदः।
न विस्मरति तत्रापि राजीवं भ्रमरो हृदि॥ 44 ॥
भ्रम भ्रमर यूथीषु मालतीषु चिरं मिल।
मा पुनः पङ्कजारण्यस्नेहशून्यं मनः कृथाः॥ 45 ॥
मधुपे मालतीपुष्पं सतृष्णं यातुमुद्यते।
हन्त दैवादुपागम्योपात्तमारण्यकेन तत्॥ 46 ॥
मधुकर तव करनिकरैः किं किं क्रान्तं वनं न कुसुमानाम्।
तद्वद सरसिजकमले लब्धं किञ्चिद्यदन्यतस्तत्किम्॥ 47 ॥
1गौरीं चम्पककलिकामपहाय भ्रान्तदुर्बुद्धे।
शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप॥ 48 ॥
2मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम्।
वनमुपगम्य भ्रमरः सम्प्रति जातो जपासक्तः।3॥ 49 ॥
4अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे।
इह न हि मधुलवलाभो भवति परं धूलिधूसरं वदनम्॥ 50 ॥
कृत्वापि कोशपानं भ्रमरयुवा पुरत एव कमलिन्याः।
अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम्॥ 51 ॥
5येनामन्दमरन्दे 6दलदरविन्दे दिनान्य7नायिषत।
कुटजे खलु तेनेहा8 तेने9 हा मधुकरेण कथम्॥ 52 ॥
10अमरतरुकुसुमसौरभ11सेवनसम्पूर्णकामस्य।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती॥ 53 ॥
इह रूपमात्रसारे चित्रगते कनककह्लारे।
न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि॥ 54 ॥
अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे।
पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि॥ 55 ॥
मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि॥ 56 ॥
नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः।
दैवादवनिमुपेतः कुटजे कुटजे समीहते वृत्तिम्॥ 57 ॥
दूरतया स्थूलतया नीलतया दानलोलुपैर्मधुपैः।
भ्रामितमिभराजधिया हन्ताभूदन्ततो महिषः॥ 58 ॥
नष्टे वारिजविपिने कष्टे नष्टेऽथ मालतीनिकरे।
तत्किं जीवति लोके मूलकमकरन्दबिन्दुना यदलिः॥ 59 ॥
पवनापनीतसौरभदूरोदकपूरपद्मिनीलुब्धः।
अपरिक्षतस्वपक्षो गन्ता हन्तापदं मधुपः॥ 60 ॥
कति कति न लताः कलिताः सञ्चरता चञ्चरीकरसिकेन।
नलिनि भवन्मधु मधुरं यत्पीतं तत्तदेव परिपीतम्॥ 61 ॥
मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु।
घनतुहिनपातदलिता कथं नु सा मालती मिलति॥ 62 ॥
यस्तोषं न गतः कमलेषु मल्लीचम्पकबकुलकुलेषु।
तस्यालेर्यदि निम्बे वासः कथय कथं न भवत्युपहासः॥ 63 ॥
आलिङ्गसे चारुलतां लवङ्गीमाचुम्बसे चाम्बुजिनीं क्रमेण।
तां चूतवल्लीं मधुप प्रकामं सन्ताडयस्येव पदैः किमेतत्॥ 64 ॥
वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि।
भृङ्गाः सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि॥ 65 ॥
किं न पश्यसि महेन्द्रदिङ्मखे शीतदीधितिरसावुदञ्चति।
मीलितैव नलिनीह मा कृथास्तन्मधुव्रत मुधा गतागतम्॥ 66 ॥
चञ्चरीक चतुरोऽसि चन्द्रिका वैभवे कुमुदिनीं निषेवसे।
भास्करे जयिनि पुष्करे नवे प्रोन्मिषन्नवदलेऽनुरज्यसि॥ 67 ॥
नीरजान्यपि निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि।
चञ्चलत्वमिह चञ्चरीक ते साहसं कथमिदं विमोक्ष्यसि॥ 68 ॥
पीतमत्र मधु यापिताः क्षपा भृङ्ग सर्वमचिरेण विस्मृतम्।
हीनमानसुषमां हिमागमे पद्मिनीं यदिह नावलोकसे॥ 69 ॥
कुन्दकुड्मलमुपास्यता त्वया यत्र शीतसमयोऽतिवाहितः।
चञ्चरीक परिहीनसौरभा रोचते न भवते सरोजिनी॥ 70 ॥
भ्रमर भ्रमता दिगन्तराणि क्वचिदासादितमीक्षितं श्रुतं वा।
वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम्॥ 71 ॥
अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः।
भ्रमति मधुकरोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा॥ 72 ॥
अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः।
विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते॥ 73 ॥
अपि दलन्मुकुले बकुले यया पदमधायि कदापि न हेलया।
अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुसेवते॥ 74 ॥
यदपि भकगणेन निषेवितं प्रकटकण्टककोटिसमन्वितम्।
तदपि पङ्कजमेति मधुव्रतः सुरससौरभसुन्दरताश्रयम्॥ 75 ॥
आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः।
आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः॥ 76 ॥
निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः।
यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नय नलिनीवनीमुपेत्य॥ 77 ॥
रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचिन्तयति कोशगते द्विरेफे हा मूलतः कमलिनीं गज उज्जहार॥ 78 ॥
अन्यासु तावदु1पमर्दसहासु भृङ्ग लोलं2 विनोदय मनः सुमनोलतासु।
मुग्धाम3जातरजसं कलिकामकाले4 बालां 5कदर्थयसि किं नवमालिकायाः॥ 79 ॥
फुल्लेषु यः कमलिनीकमलोदरेषु चूतेषु यो विलसितः सलिकान्तरस्थः।
पश्याद्य तस्य मधुपस्य शरद्व्यपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति॥ 80 ॥
ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः।
ते साम्प्रतं प्रतिदनं क्षपयन्ति कालं निम्बेषु चार्ककुसुमेषु च दैवयोगात्॥ 81 ॥
एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य।
त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किञ्चिदपि तत्तु तवैव हानिः॥ 82 ॥
सानन्दमेष मकरन्दमिहारविन्दे विन्देत षट्पदयुवेति जनैरटङ्कि।
दैवादकाण्डपरिमुद्रितपुण्डरीककोषादभूदहह निःसरणं पुमर्थः॥ 83 ॥
आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः।
तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप साम्यमधुना मधुमक्षिकाभिः॥ 84 ॥
मा गा विषादमलिपोतक केतकीनामन्तर्निगूढमनवाप्य मधुप्रकर्षम्।
लाभः स एव परमो ननु कण्टकानां श्रेणीभिरक्षतशरीरतया प्रयासि॥ 85 ॥
नालिङ्गिता नवलवङ्गलता न वापि संभावता विटपिनः कलगुञ्जितेन।
आसादिता सपदि काचन रीतिरन्या माकन्दकोरकमुदीक्ष्य मधुव्रतेन॥ 86 ॥
मन्दारमेदुरमरन्दरसालसाङ्गः स्वर्नागरीनयननन्दन एष भृङ्गः।
दैवादुपेत्य जगतीमगतिर्विषीदञ्छाखोटकोटरकुटीषु निलीय शेते॥ 87 ॥
किं केतकीपरिमलोत्थितगन्धलुब्धो गुञ्जन्भ्रमन्भ्रमर वाञ्छसि रन्तुमेताम्।
तत्कण्टकैः परिवृतामतुलामगम्यां सन्त्यज्यतां व्रज निकुञ्जलतां सपुष्पाम्॥ 88 ॥
इह सरसि सहर्षं 6मञ्जु 7गुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजिनीभिः।
अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रां मालती यावदेषा॥ 89 ॥
भ्रमर मरणभीतिं मुञ्च चाम्पेयपुष्पे विहर हर तदीयं सौरभं सौहृदेन।
मधुकर सुकरं चेद्वस्तु हस्तेन लब्धुं भवतु तदुपभोगेऽनिष्टमिष्टं फलं वा॥ 90 ॥
गन्धैराढ्या जगति विदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात।
अन्धीभूतस्तदनु रजसा कण्टकैश्छिन्नपक्षः स्थातुं गन्तुं क्षणमपि सखे नैव शक्तो द्विरेफः॥ 91 ॥
दृष्ट्वा स्फीतोऽभवदलिरसौ लेख्यपद्मं विशालं चित्रं चित्रं किमिति किमिति व्याहरन्निष्पपात।
नास्मिन्गन्धो न च मधुकणा नास्ति तत्सौकुमार्यं घूर्णन्मूर्धा बत नतशिरा व्रीडया निर्जगाम॥ 92 ॥
सदम्भोजाम्भोजं परिषजति सम्भोगरहितो गतोऽमन्दे कुन्दे वहति मकरन्दं न हि मनः।
ततो मन्येऽरण्ये क्वचिदधिकपुण्येऽपि ललितां लवङ्गीमासङ्गीं भजति नवभृङ्गीपरिवृढः॥ 93 ॥
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते।
प्रियङ्गौ नासङ्गं रचयति न चूतेऽपि रमते स्मरल्लक्ष्मीलीलाकमलमधुपानं मधुकरः॥ 94 ॥
श्रियो वासाम्भोजे त्रिदिवसरिदम्भोजकुहरे हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ।
स दैवादुन्मीलत्तपनकरतापव्यतिकरव्यथाकम्पः सम्प्रत्यतरुमरुभूमौ विचरति॥ 95 ॥
लतास्तास्तास्तादृङ्मधुरसवतीः पङ्कजवनीः समालिङ्गंश्चुम्बन्नयमगमयद्भूरिसमयम्।
इदानीं चेन्नीचे विचरति रुचेरेष लकुचे कुचेष्टेयं धातुर्भवति नहि वाच्यो मधुकरः॥ 96 ॥
मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे मधूलीभिश्चान्तर्मधुप सहकारेऽपि रमसे।
वसन्ते वासन्तीमधु मधुरमश्नासि बहुशो दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि॥ 97 ॥
भ्रमन्स्वैरं भ्रातर्भ्रमर नवयूथेषु बहुशो मधूलीमन्विष्यन्कुमुदवनवीथीषु विचर।
वसन्तप्रारम्भस्फुरितमधुसम्भारसुभगो न ते विस्मर्तव्यः क्वचन सहकारव्यतिकरः॥ 98 ॥
अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः।
इयं पुरत एव ते सरसपुष्पमासोदये रसालनवम़ञ्जरी मधुझरी जरीजृम्भते॥ 99 ॥
नो मल्लीमयमीहते1 न भजते मत्तेभकुम्भस्थलीं 2वासन्तीं सहते न चन्दनवनीमालम्बते न क्वचित्।
जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव 3वीतभ्रमः॥ 100 ॥
किं क्वापि प्रलया नलैर्विटपिनो निर्दह्य भस्मीकृताः किंस्विद्देवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम्।
किंवा हन्त 4कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरैर्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि॥ 101 ॥
यस्याः सङ्गमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम्।
भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम्॥ 102 ॥
दग्धा सा बकुलावली कवलतास्ते ते रसालद्रुमाः प्रुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः।
भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं किं त्वं सम्प्रति काननान्तरपरिस्पन्दाय मन्दायसे॥ 103 ॥
दूरादुज्झति चम्पकं न च भजत्यम्बोजराजीरजो नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम्।
मन्दारे यदनादरो 1विचकिलोपान्ते न सन्तृप्यते तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती॥ 104 ॥
येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे (शारदी।2
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः॥ 105 ॥
भ्रातर्भ्राम्य लवङ्गवल्लिषु पिब स्वैरं नवाम्भोरुहं माध्वीमाधविकामधूनि मधुराण्याकण्ठमास्वादय।
कस्मादापतितोऽसिकेतकमिदं यस्मिन्नुदीर्णं रजो दृष्टिं लुम्पति सूचयः प्रविचिताः कृन्तन्ति मर्माण्यपि॥ 106 ॥
आस्वाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरैर्माकन्दस्य पिकान्प्रतारितवतो मूर्धानमध्यासितः।
प्रत्यासन्नतमे पिकेऽपि भवते ये नार्पिता तादृशी माद्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते॥ 107 ॥
नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया मालत्याः कुसुमेषु येन सततं केली कृता हेलया।
तेनेयं मधुगन्धलुब्धमनसा गुञ्जालता सेव्यते हा धिग्दैवकृतं स एव मधुपः कां कां दशां नागतः॥ 108 ॥
प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरीपुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान्।
तस्मिन्नद्य रसालशाखिनि दशां दैवात्कृशामञ्चति त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः॥ 109 ॥
सोऽपूर्वो 3रसनाविपर्ययविधिस्तत्कर्ण4योश्चापलं दृष्टिः सा 5मदविस्मृत6स्वपरदिक्किं भूयसोक्तेन वा।
सर्वं विस्मृतवानसि भ्रमर हे 7यद्वारणोऽद्याप्यसावन्तः8शून्यकरो9 निषेव्यत इति भ्रान्तः क एष ग्रहः॥ 110 ॥
केतक्यः कटुकण्टकाः कुमुदिनी दोषोदयान्मोदते जायन्ते विकलाः कलावति पुनः पङ्केरुहां पङ्क्तयः।
अन्यानि प्रसवानि षट्पदपदन्यासैरवाञ्छि क्वचिद्भृङ्गो भ्राम्यति कल्पवृक्ष विपदामन्तर्भवन्तं विना॥ 111 ॥
यद्यप्याम्रतरोरमुष्य वनिताकर्णावतंसोचितामाजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः।
विस्मर्तुं भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं यस्यास्वाद्य मधूनि चानतशिरो मञ्जु त्वयोद्गुञ्जितम्॥ 112 ॥
माकन्दे मधुपानमम्बु बकुले क्रीडा कदम्बद्रुमे दोलाखेलनकौतुकं कुवलये कः को न वा विभ्रमः।
येनाकारि मधुव्रतेन सहसा सोऽयं मधूके मधौ माध्वीकं परिपीय पीवरतनुर्जीवत्यहो जीवनम्॥ 113 ॥
पीतं पङ्कजकानने मधु मया नीपेऽपनीतं वयो बन्धूके वरबन्धुता विरचिता रक्तं रसालद्रुमे।
किं चाकारि कुमुद्वतीपरिकरे क्रीडाकलाकौशलं कस्तद्वेत्तु विधीयतेऽद्य बदरीवृन्दस्य यद्वन्दनम्॥ 114 ॥