०२ हंसः

कं1सारिचरणोद्भूतसिन्धुकल्लोललालितम्।
मन्ये हंस मनो नीरे 2कुल्यानां रमते न ते॥ 3 ॥

अस्ति यद्यपि सर्वत्र नीरं नीरजमण्डितम्।
रमते न मरालस्य मानसं 3मानसं विना॥ 4 ॥

एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना॥ 5 ॥
हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः।
नीरक्षीरविभागे तु हंसो हंसो बको बकः॥ 6 ॥
बककोयष्टिभिर्जुष्टे पल्वले मानसं कुतः।
मोदते हि मरालस्य सन्मानसविहारिणः॥ 7 ॥
अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र॥ 8 ॥
यदि नाम दैवगत्या जगदसरोजं कदाचिदपि जातम्।
4अवकरनिकरं विकिरति तत्किं 5कृकवाकुरिव हंसः॥ 9 ॥

नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः॥ 10 ॥
सैव सैव सरसी रमणीया यत्र यत्र वलते तव रागः।
राजहंस रसिक स्मरणीया श्रीमता तदपि मानसकेलिः॥ 11 ॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते॥ 12 ॥
कञ्चिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजम्।
मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदम्॥ 13 ॥
यत्रापि कुत्रापि भवन्ति हंसा हंसा महीमण्डलमण्डलानि।
हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः॥ 14 ॥
अम्भोजिनीवनविलासनमेव हन्त हंसस्य हन्तु नितरां कुपितो विधाता।
न त्वस्य दुग्धजलभेदविधिप्रसिद्धां 6वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः॥ 15 ॥

भृङ्गाङ्‌गनाजनमनोहरहारिगीतराजीवरेणुकणकीर्णपिशङ्गतोयाम्।
रम्यां हिमाचलनदीं प्रविहाय हंस हे हे हताश वद कां दिशमुत्सुकोऽसि॥ 16 ॥
स्थित्वा क्षणं विततपक्षतिनान्तरिक्षे मातङ्गसङ्गकलुषां नलिनीं विलोक्य।
उत्पन्नमन्युपरिघर्घरनिःस्वनेन हंसेन साश्रु परिवृत्य गतं नलिन्याः॥ 17 ॥
रे राजहंस किमिति त्वमिहागतोऽसि योऽसौ बकः स इह हंस इति प्रतीतः।
तद्गम्यतामनुपदेन पुनः स्वभूमौ यावद्वदन्ति न बकं खलु मूढलोकाः॥ 18 ॥
ये वर्धिताः कनकपङ्कजरेणुमध्ये मन्दाकिनीविमलनीरतरङ्गभङ्गैः।
ते साम्प्रतं विधिवशात्खलु राजहंसाः शैवालजालजटिलं जलमाश्रयन्ति॥ 19 ॥
हा हन्त मानससरःसलिलावतंस रे राजहंस पयसोः प्रविवेचनाय।
चेच्छक्तिमान्खलु भवान्न तदा किमु स्यात् किं वा कपोत उत वा कलविङ्कपोतः॥ 20 ॥
नेदं सरः सरसवारि न वारिजं वै नैतन्मधूनि मधुपाः सहवासिनो वा।
हेमारविन्दवनवासविलासभाजो रे हंस मानसजुषस्तव मानसेऽपि॥ 21 ॥
हंसः प्रयाति शनकैर्यदि यातु तस्य नैसर्गिकी गतिरियं नहि तत्र चित्रम्।
गत्या तया जिगमिषुर्बक एष मूढश्चेतो दुनोति सकलस्य जनस्य नूनम्॥ 22 ॥
भुक्ता मृणालपटली भवता निपीतान्यम्बूनि यत्र नलिनानि निषेवितानि।
रे राजहंस वद तस्य सरोवरस्य कृत्येन केन भवितासि कृतोपकारः॥ 23 ॥
तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः पतद्धारासारां गमय विषमां प्रावृषमिमाम्।
निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने स एव त्वं हंसः पुनरपि विलासास्त इह ते॥ 24 ॥
गतं तद्गाम्भीर्यं तटमपि चितं जालिकशतैः सखे हंसोत्तिष्ठ त्वरितममुतो गच्छ सरसः।
न यावत्पङ्कान्तःकलुषिततनुर्भूरिविलसद्बकोऽसौ वाचालश्चरणयुगलं मूर्ध्नि कुरुते॥ 25 ॥
पुरा सरसि मानसे विकचसारसालिस्खलत्परागसुरभीकृते पयसि यस्य यातं वयः।
7पल्वलजलेऽधुना मिलदनेकभेका1कुले मरालकुलनायकः कथय रे कथं वर्तताम्॥ 26 ॥

वातान्दोलितपङ्कजस्थितरजःपुञ्जाङ्गरागोज्ज्वलो यः शृण्वन्कलकूजितं मधुलिहां सञ्जातहर्षः पुरा।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः सोऽयं सम्प्रति हंसको मरुगतः कौपं पयो याचते॥ 27 ॥
यो दिव्याम्बुजलोलमत्तमधुपप्रोद्गीतरम्यं सरस्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति कैदारिके।
तस्यालीकसुखाशया परिभवक्रोडीकृतस्याधुना हंसस्योपरि टिट्टिभो यदि पदं धत्तेऽत्र को विस्मयः॥ 28 ॥
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिकाविन्यस्तांस्तिलतण्डुलान्कवलयन्दृष्टोऽसि हृष्टैर्मुखैः।
एषा पक्कणवापिका कमलिनीखण्डेन गुप्तात्मभिर्व्याधैस्त्वद्विधमुग्धबन्धनविधौ कं नाम नो सूत्र्यते॥ 29 ॥
कस्त्वं लोहित2लोचनास्यचरणो हंसः कुतो मानसात् किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासन्निभम्।
रत्नानां निचयाः प्रवालमणयो वैदूर्यरोहाः क्वचिच्छम्बूका3 अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम्॥ 30 ॥

यः सन्तापमपाकरोति जगतां यश्चोपकारक्षमः सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः।
तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि॥ 31 ॥
आकारः कमनीयता कुलगृहं लीलालसा सा गतिः सम्पर्कः कमलालयैः कलतया लोकोत्तरं कूजितम्।
यस्येयं गुणसम्पदस्ति महती तस्यातिभव्यस्य ते सम्रब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे॥ 32 ॥
नद्यो नीचगता दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोटसङ्कटतटोद्देशास्तडागादयः।
इत्थं भूतल आकलय्य सकलानम्भोनिवेशानिति त्वां भो मानस संस्मरन् पुनरसौ हंसः समभ्यागतः॥ 33 ॥
हंसी वेत्ति परागपिञ्जरतनुः कुत्रापि पद्माकरे प्रेयान्मे बिसकन्दलीकिसलयं भुङ्क्ते ह्ययं निर्वृतः।
नो जानाति तपस्विनी यदनिशं जम्बालमालोडयञ्शैवालाङ्कुरमप्यसौ न लभते हंसो विशीर्णच्छदः॥ 34 ॥
प्रम्लाना नलिनी जलानि किरणैः सूर्यस्य शोषं ययुर्नाशं प्राप विहङ्गमावलिरियं तृष्णाविशीर्णेक्षणा।
एते तीरमहीरुहा अपि पतत्पत्त्रश्रियोऽद्यापि रे कोऽयं राजमराल शुष्कसरसीतीरे रतिप्रक्रमः॥ 35 ॥
एषा पुष्करिणी मराल मलिनैश्छन्ना कुवीथीजलैर्यस्यामज्ञतया विधेरकृपया चेद्वस्तुमाकाङ्क्षसे।
विश्रम्भो बकमण्डलेषु विनयो भेकेषु सम्बन्धिता रात्र्यन्धेषु विधीयतां कृपणता को यष्टिकश्रेणिषु॥ 36 ॥
पीतं येन पुरा पुरन्दरपुरे रम्भोरुकेलिस्खलन् मन्दाराङ्कुरकर्णपूरसुरभि स्वर्गापगायाः पयः।
सोऽयं मारववारि पामरवधूपादार्पणप्रोच्छलत्पङ्कातङ्कितभेकभिन्नमघृणौ हंसः समाशंसते॥ 37 ॥
काके कार्ष्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितो गाम्भीर्ये महदन्तरं विचसि यो भेदः स किं कथ्यते।
एतावत्सु विशेषणेष्वपि सखे यत्रेदमालोक्यते के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः॥ 38 ॥
क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं ये नोज्झन्ति पुरीषपुष्टवपुषस्ते केचिदन्ये द्विजाः।
ये तु स्वर्गतरङ्गिणीबिसलतालेशेन सम्वर्धिता गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम्॥ 39 ॥
भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम्।
यावन्नायं दुरन्तो हरगलगरलव्यालजालालिनीलप्रोन्मीलन्मेघमालामलिनसकलदिङ्मण्डलोऽभ्येति कालः॥ 40 ॥


  1. विष्णुः. ↩︎ ↩︎

  2. कृत्रिमसरिताम्. ↩︎ ↩︎

  3. मानससरोवरम्. ↩︎ ↩︎

  4. सङ्करसञ्चयम्. ↩︎

  5. ताम्रचूडः. ↩︎

  6. चातुर्यम्. ↩︎

  7. अल्पजलाशयजले. ↩︎