+११ दावानलान्योक्तयः

हे दावानल शैलाग्रवासिनः साधुशाखिनः।
मुग्ध व्यर्थं त्वया दग्धाः प्रेरितेन प्रभञ्जनैः।1॥ 1 ॥

यस्यां महत्त्वभाजो भवन्ति गुणिनोऽमिता2 धनुर्दण्डाः।
दहतस्तां 3वंशालिं को वनवह्ने विवेकस्ते॥ 2 ॥

दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षैस्तम्।
यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति॥ 3 ॥
अभ्युन्नतेऽपि जलदे जगदेकसारसाधारणप्रणयहारिणि हा यदेते।
उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः॥ 4 ॥
छायाफलानि मुकुलानि च यस्य विश्वमाह्लादयन्ति सहकारमहीरुहस्य।
आमृष्य तस्य शिखया नवपल्लवानि मथ्नासि रे दवहुताश हताश कष्टम्॥ 5 ॥
दुर्दैवप्रभवप्रभञ्जनभयादुद्भूत भूमीरुहानेतान्सत्त्वगुणाश्रयानकरुणः शुष्यन्किमुन्माद्यसि।
ब्रूमस्त्वां 4वनहव्यवाह यदमी दग्धार्धदग्धा अपि द्रष्टव्यास्तव तत्क्षणाद्विलयिनो नामापि न ज्ञायते॥ 6 ॥

विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता।
भस्मीकृत्य सपुष्पपल्लवफलैर्नम्रान्महापादपानुद्वृत्तेन दवानलेन विपिनं वल्मीकशेषं कृतम्॥ 7 ॥
दिक्चक्रं तृणभस्मना कवलितं मूलान्यपि क्ष्मारुहां निर्दग्धानि न चार्भकोऽपि हरिणीयूथस्य शेषीकृतः।
आः कष्टं विपिनौकसोऽपि मुनयः प्लुष्टाः कृतान्तक्रियां कृत्वेत्थं वनवह्निना किमधुना शान्तेन दीप्तेन वा॥ 8 ॥


  1. वायुभिः. ↩︎

  2. असङ्ख्याः. ↩︎

  3. वेणुपङ्क्तिम्. ↩︎

  4. वनानल. ↩︎