१० मरुस्थलान्योक्तयः

मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते।
तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम्॥ 1 ॥
सत्पादपान्विपुलपल्लवपुष्पपुञ्जसम्पत्परीतवपुषः फलभारनम्रान्।
यो मार्गसिञ्जितशकुन्तसमाश्रितोरुशाखान्मरौ मृगयते न ततोऽस्ति मुग्धः॥ 2 ॥
पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गमङ्गं भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि।
एषोऽसेषश्रमशमपटुर्दुःखिताध्वन्यबन्धुः सिन्धुर्दूरीभवतु भवतो मारवः पान्थ पन्थाः॥ 3 ॥
कल्याणं नः किमधिकमितो जीवनार्थं यतस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार।
नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्यानामशरण मरुप्रान्त रे कोऽप्युपायः॥ 4 ॥
किमसि विमनाः किं चोन्मादी क्षणादपि लक्ष्यसे पुनरपि सखे प्रेक्षापूर्वा न काश्चन ते क्रियाः।
स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थलीं शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि॥ 5 ॥
भो भोः किं किमकाण्ड एव पतितस्त्वं पान्थ कान्या गतिस्तत्तादृक् तृषितस्य मे खलमतिः सोऽयं जलं गूहते।
अस्थानोपगतामकालसुलभां तृष्णां प्रति क्रुध्य हे त्रैलोक्यप्रथितप्रभावमहिमा मार्गोऽस्त्यसौ मारवः॥ 6 ॥