हे कूप त्वं चिरं जीव स्वल्पतोये बहुव्ययः।
गुणवद्रिक्तपात्राणि प्राप्नुवन्ति हि पूर्णताम्॥ 1 ॥
रे कूप जीवनागार यदि दातृत्वमिच्छसि।
तदा त्वं गुणवत्पात्रमेकं वा सन्निधौ कुरु॥ 2 ॥
अमुना मरुकूपेन के के नाम न वञ्चिताः।
रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना॥ 3 ॥
1सगुणैः सेवितोपान्तो विनतैः प्राप्तदर्शनः।
नीचोऽपि कूपः सत्पात्रैर्जी2वनार्थं समाश्रितः॥ 4 ॥
यद्यपि बहुगुणगम्यं जीवनमेतस्य कूपमुख्यस्य।
जयति तथापि विवेको दानं पात्रानुमानेन॥ 5 ॥
नितरां3 नीचोऽ4स्मीति त्वं खेदं कूप मा कदापि कृथाः।
अत्यन्त5सरसहृदयो यतः परेषां गुणग्रहीतासि॥ 6 ॥
चित्रं न तद्यदयमम्बुधिरम्बुदौघसिन्धुप्रवाहपरिपूरणया महीयान्।
त्वं त्वर्थिनामुपकरोषि यदल्पकूप निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत्॥ 7 ॥
दिनमवसितं विश्रान्ताः स्म त्वया मरुकूपे हे परमुपकृतं शेषं वक्तुं वयं न पुनः क्षमाः।
भवति सुकृतैरध्वन्यानामशेषजलो भवानियमपि घनच्छाया भूयात्तवोपतटं शमी॥ 8 ॥
भीमश्या6मप्रतनुवदन क्रूरपातालकुक्षिक्रोडप्रान्तोपहितविभवस्याथ किं ते ब्रवीमि।
येन त्वत्तः समभिलषितं वाञ्छतः क्षुद्र कूप क्लाम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम्॥ 9 ॥