+०८ तडागान्योक्तयः

आगच्छतामपूर्णानां पूर्णानामपि गच्छताम्।
यदध्वनि न सङ्घट्टा घटानां किं सरोवरम्॥ 1 ॥
अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम्।
इदमतिसुलभं चाम्भो भवति पुरा जलधराभ्युदये॥ 2 ॥
कस्य तृषं न क्षपयति पिबति न कस्तव पयः प्रविश्यान्तः।
यदि सन्मार्गसरोवर नक्रो न क्रोडमधिवसति॥ 3 ॥
तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः।
सर्वमेकपद एव विच्युतं पङ्कसेषमचिरादभूत्सरः॥ 4 ॥
विहगैर्गतं मधुकरैश्चलितं प्रकरैः प्रयातमपि पद्मदृशाम्।
विभवे गते सकलमेव गतं ध्रुवमेकमञ्चति यशः सरसः॥ 5 ॥
आपेदिरेऽम्ब1रपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति।
सङ्कोचमञ्चति2 सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु॥ 6 ॥

इयत्यां सम्पत्तावति च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि 3कासार सहसा।
निदाघे4 चण्डांशौ5 किरति परितोऽङ्गारनिकरं कृशीभूतः केषामहह परिहर्तासि खलु ताम्॥ 7 ॥

6क्रौञ्चः क्रीडतु कूर्दतां च कुररः कङ्कः परिष्वज्यतां मद्गुर्माद्यतु सारसश्च रसतु प्रोड्डीयतां टिट्टिभः।7
भेकाः सन्तु बका वसन्तु चरतु खच्छन्दमाटिस्तटे हंसो पद्मसरः कुतः कतिपयैर्हसैर्विना श्रीस्तव॥ 8 ॥

एतस्मिन्मरुमण्डले परिचलत्कल्लोलकोलाहलक्रीडत्कङ्कमपङ्कमङ्कविलसन्निःशङ्खमत्स्यव्रजम्।
केनेदं विकसत्कुशेशयकुटीकोणक्वणत्षट्पदं स्त्रैणप्रीणितपान्थमुज्ज्वलजलं चक्रे विशालं सरः॥ 9 ॥
स्तोकाम्भःपरिवर्तिताङ्गशफरीग्रासार्थिनः सर्वतो लप्स्यन्ते बकटिट्टिभप्रभृतयः स्वल्पेषु साधु स्थितिम्।
सद्यः शोषमुपागतेऽद्य सरसि श्रीसद्मपद्माकरे तस्मिन्पङ्कजिनीविलासरुचयो हंसाः क्व यास्यन्त्यमी॥ 10 ॥
माद्यद्दिग्गजदानलिप्तकरटप्रक्षालनक्षोभिता व्योम्नः सीम्नि विचेरुरप्रतिहता यस्योर्मयो निर्मलाः।
कष्टं भग्यविपर्ययेण सरसः कल्पान्तरस्थायिनस्तस्याप्येकबकप्रचारकलुषं कालेन जातं जलम्॥ 11 ॥
रे पद्माकर यावदस्ति भवतो मध्ये पयः पूरितं तावच्चक्रचकोरकङ्ककुररश्रेणीं समुल्लासय।
पश्चात्त्वं समटद्बकोटचटुलत्रोटीपुटव्याहतित्रुट्यत्कर्कटकर्परव्यतिकरैर्निन्दास्पदं यास्यसि॥ 12 ॥
याते मय्यचिरान्निदाघमिहि8रज्वालाशतैः शुष्कतां 1गन्ता कं प्रति पान्थसन्ततिरसौ सन्तापमालाकुला।
2एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः।3॥ 13 ॥

सोपानानि तिरोहितानि पदवी छन्ना तृणैर्नूतनैः कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गताः।
माधुर्यं न मधुव्रतोदितगिरां पद्मानि मग्नानि के भेकानामिह गर्जितं परमहो वृद्ध्यैव नष्टं सरः॥ 14 ॥
आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्भूयोऽपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम्।
इत्याशाशततन्तुबद्धहृदयो नक्तं दिवं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः॥ 15 ॥
उद्दानाम्बुदवर्धमानशिखिनीकेकातिरेकाकुले सम्प्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्पवर्षागमे।
भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं मुहुर्दीनं मीनकुलं न पालयसि चेत्कासार का सारता॥ 16 ॥
सौवर्णः कमलाकरः शशिशिलासोपानबन्धक्रमो वारि क्षीरसहोदरं तटतरुश्रेणीसुखाः क्षोणयः।
सर्वं ते रुचिरं सरोवर परं निन्द्यः कुतोऽयं विधिः कूटग्राहभयात्प्रयान्ति विमुखाः पान्था निदाघेऽप्यमी॥ 17 ॥
उड्डीनं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम्।
तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते॥ 18 ॥
हंसैर्लब्धप्रशंसैस्तरलितकमलस्रस्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभीरैश्चपलबककुलत्रासलीनैश्च मीनैः।
पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रकीडदातिस्तवसलिलचलच्चक्रवाकस्तडागः॥ 19 ॥


  1. आकाशमार्गम्. ↩︎ ↩︎

  2. प्राप्नुवति सति. ↩︎ ↩︎

  3. मार्गे यत्सरस्तस्य. ↩︎ ↩︎

  4. ग्रीष्मे. ↩︎

  5. सूर्ये. ↩︎

  6. खेलतु. ↩︎

  7. जलकाकः. ↩︎

  8. सूर्यः. ↩︎