तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम्॥ 1 ॥
कतिपयिदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि॥ 2 ॥
यास्यति जलधरसमयस्तव च समृद्धिर्लघीयसी भविता।
तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि॥ 3 ॥
कुरु गम्भीराशयतां कल्लोलैर्जनय लोकविभ्रान्तिम्।
वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यसि॥ 4 ॥
मलयस्य गिरेरपत्यमादौ तदनु भ्रातृमती पटीरवृक्षैः।
किमु चित्रमपांनिधेः कलत्रं तटिनी काचन मौक्तिकानि सूते॥ 5 ॥
नावर्तो न च तरलास्तरङ्गमाला नेदानीं जलरयजा रवाः करालाः।
सैव त्वं तटिनि तटद्रुमान्विपाट्य प्रौढानामपयशसामिवासि पात्रम्॥ 6 ॥
छायां प्रकुर्वन्ति नमन्ति 1पुष्पैः फलानि यच्छन्ति तटद्रुमा ये।
उन्मूल्य तानेव नदी प्रयाति 2तरङ्गिणां क्व 3प्रतिपन्नमस्ति॥ 7 ॥
न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जह्नुजायाः।
न युक्तमेतत्तु पुरो यदस्यास्तरङ्गभङ्गान्प्रकटीकरोषि॥ 8 ॥