०२ शोणः

आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम्।
अन्तर्ग्राहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्सम्पदां विप्लवान्॥ 11 ॥