यद्यपि दिशि दिशि सरितः परितः परपूरिताम्भसः सन्ति। तदपि 1पुरन्दरतरुणीसङ्गतिसुखदायिनी गङ्गा॥ 9 ॥ स किमु सहेत सुधांशुः स्मरहरभालानलज्वालाः। शिशिरैः शीकरनिवहैः सिञ्चति सुरनिम्नगा नो चेत्॥ 10 ॥ इन्द्रस्त्रीणां रम्भोर्वश्यादीनां समागमसुखदात्री. ↩︎