+०६ समुद्रान्योक्तयः

1नावज्ञा नाप्य2वैदग्ध्यमुदधेर्महिमैव सः।
यत्तीरपङ्कमग्नानि महारत्नानि शेरते॥ 1 ॥

यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन्।
तथापि 3जानुदघ्नोऽयमिति चेतसि मा कृथाः॥ 2 ॥

रत्नैरापूरितस्यापि मदलेशोऽस्ति नाम्बुधेः।
मुक्ताः कतिपयाः प्राप्य मातङ्गा मदविह्वलाः॥ 3 ॥
अधः करोषि रत्नानि मूर्ध्ना धारयसे तृणम्।
दोषस्तवैष जलधे रत्नं रत्नं तृणं तृणम्॥ 4 ॥
4वातोल्लासितकल्लोल धिक्ते सागर गर्जितम्।
यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकाम्॥ 5 ॥

अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया।
धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः॥ 6 ॥
यद्यपि बद्धः शैलैर्यद्यपि गिरिमथ5नमुषितसर्वस्वः।
तदपि परभीतभूधररक्षायां दीक्षितो जलधिः॥ 7 ॥

किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते।
सलिलमपि यन्न तावकमर्णव वदनं प्रयाति तृषितानाम्॥ 8 ॥
मा कुरु गुरुतागर्वं लघुरन्यो नास्ति सागर त्वत्तः।
जलसङ्ग्रहमन्यस्मात्त्वयि सति कुर्वन्ति पोत6स्थाः॥ 9 ॥

किमधिकमस्य ब्रूमो महिमानं वारिधेर्हरिर्यत्र।
अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि॥ 10 ॥
लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम्।
सर्वमलज्जाकरमिह यत्कुर्वन्तीह परिपूर्णाः॥ 11 ॥
तृषां धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः।
यस्त्वेष कस्यापि न हन्ति तृष्णां स किं वृथा गर्जति निस्त्रपोऽब्धिः॥ 12 ॥
त्वमद्य सिन्धो जगदेकबन्धो रत्नानि दातुं विमुखोऽसि कस्मात्।
किं वा सुतः कल्पमहीरुहस्ते दानैः कृतार्थीकुरुते जगन्ति॥ 13 ॥
अयि रोषमुरीकरोषि नो चेत्किमपि त्वां प्रति वारिधे वदामः।
जलदेन तवार्तिना विमुक्तान्यपि तोयानि महान्न हा जहासि॥ 14 ॥
तोयानामधिपतिराकरो मणीनां शैलानामभयपदं महान्महद्भ्यः।
अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्बः॥ 15 ॥
स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला।
प्राप्तं मया सकलमेव फलं पयोधे यद्दारुणैर्जलचरैर्न विदारितोऽस्मि॥ 16 ॥
आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन।
क्षारीकृतं च व़डवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च॥ 17 ॥
निः-पीतपीनतिमिराणि मनोहराणि रत्नानि सन्ति न कियन्ति तवान्तिकेषु।
एतस्य कौस्तुभमणेर्व्रजतः परन्तु पाथोनिधे स्मरणमान्तरमावहेथाः॥ 18 ॥
कल्लोलवेल्लितदृषत्पुरुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः।
किं कौस्तुभेन विहितो भवतो न नाम याञ्चाप्रसारितकरः पुरुषोत्तमोऽपि॥ 19 ॥
लज्जामहे वयमहो वचनेऽपि हन्त सांयात्रिकाः सलिलराशिममी विशन्ति।
अंसाधिरोपिततदीयतटोपकण्ठकौपेयकाम्बुदृतयो यदुदीर्णतृष्णाः॥ 20 ॥
चपलतरतरङ्गैर्दूरमुत्सारितोऽपि प्रथयति तव कीर्तिं 1दक्षिणावर्तशङ्खः।
2परिगणय पयोधे 3पद्मनाभार्घ्ययोग्यस्तव निकटनिषण्णैः 4क्षुल्लकैः श्लाघ्यता का॥ 21 ॥

यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूलं रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरित्रीम्।
धिक्सर्वं तत्तव जलनिधे यद्विमुच्याश्रुधारास्तीरे नीरग्रहणरसिकैरध्वगैरुज्झितोऽसि॥ 22 ॥
अयं 5वारामेको 6निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृ7ष्णातरलितमनोभिर्जलनिधिः।
क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति 8मुनिः॥ 23 ॥

अये वारां राशे कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिवरसुतस्त्वामुपगतः।
त्वदन्तर्वास्तव्यो यदि पुनरयं वाडवशिखी प्रदीप्तः प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम्॥ 24 ॥
इतः स्वपिति केशवः कुलमितस्तदीयद्विषामितश्च शरणार्थिनः 9शिखरिपत्त्रिणः शेरते।
इतोऽपि वडवानलः सह 10समस्तसम्वर्तकैरहो विततमूर्जितं भरसहं च सिन्धोर्वपुः॥ 25 ॥

ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी मुक्तौघाः सिकताः प्रवाललतिकाः शैवालमम्भः सुधा।
तीरे कल्पमहीरुहाः किमपरं नाम्नापि रत्नाकरो दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति॥ 26 ॥
एतस्मादमृतं सुरैः शतमुखेनोच्चैःश्रवाः सद्गुणः कृष्णेनाद्भुतविभ्रमैकवसतिर्लक्ष्मीः समासादिता।
इत्यादि प्रचुराः पुरातनकथाः सर्वेभ्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्टं पयोऽपि क्वचित्॥ 27 ॥
सङ्ख्येया न भवन्ति ते युगशतैर्गाम्भीर्यमुख्या गुणाः सत्यं वारिनिधे तथापि तदिदं चित्ते विधत्ते व्यथाम्।
स्वच्छन्देन तिमिंगिलान्निजकुलग्रासं मुहुः कुर्वतो यत्ते वारयितुं निजेऽपि विषये न स्वामिता विद्यते॥ 28 ॥
कल्लोलैः स्थगयन्मुखानि ककुभामभ्रंलिहैरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि।
एतत्ते यदि घोरनक्रनिलयं स्वादु व्यधास्यद्विधिः किं कर्तासि तदा न वेद्मि तरलैः स्वैरेव दुश्चेष्टितैः॥ 29 ॥
द्यामारोहति वाञ्छति स्थगयितुं तेजोऽपि तेजस्विनामुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिरम्भोधरः।
कांश्चिद्द्रागुपजीव्य तोयचुलुकान्सिन्धो भवत्सन्निधौ पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित्॥ 30 ॥
किं वाच्यो महिमा तवात्र जलधे यस्येन्द्रवज्राहतित्रस्तक्ष्माभृदमज्जदम्बुनिचये मज्जत्कलङ्काकृतिः।
मैनाकोऽपि गभीरनीरविलसत्पाठीनपृष्ठोल्लसच्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः॥ 31 ॥
आस्तां तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियस्तीरे यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जनः।
तस्मादम्बुनिधेर्वरं लघुसरः कूपोऽथवा वापिका यत्र स्वीयकरद्वयेन सलिलं पेपीयते स्वेच्छया॥ 32 ॥
देवैर्यद्यपि तक्रवद्विमथितः केदारवद्वानरैर्बद्धः सिद्धवदञ्जनाविजनुषा कुल्यावदुल्लङ्घितः।
किं चासीच्चुलकेऽम्बुबिन्दुवदयं द्राक्कुम्भयोनेर्मुनेर्नातारोऽयमिति प्रथा जलनिधेरासीदथापि श्लथा॥ 33 ॥
पीयूषेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी शक्रः कल्परुहा शशाङ्ककलया श्रीशङ्करस्तोषितः।
मैनाकाहिनगा निजोदरगताः संस्थानतः स्थापितास्त्वच्चूलीकरणे घटोद्भवमुनिः केनापि नो वारितः॥ 34 ॥
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः॥ 35 ॥
पीयूषेण कृतार्थिता दिविषदो लक्ष्या हरिः प्रीणितश्चन्द्रार्धेन विभूषितः पशुपतिः कल्पद्रुमैर्वासवः।
आत्मानं परिमन्थिनाप्युदधिना किं किं न तेषां कृतं तस्यागस्त्यमुनिप्रपीतपयसो नोच्चैः कृतैकाङ्गुलिः॥ 36 ॥
लक्ष्म्या श्रीपुरुषोत्तमो हिमरुचा गौरीप्रियोऽलङ्कृतो देवेन्द्रोऽपि विमानवारणहयस्त्रीरत्नकल्पद्रुमैः।
पीयूषैरमितैस्त्वया दिविषदश्चान्ये कृतार्थीकृताः श्रीमन्वारिनिधे त्वदीयमहिमा नूनं न वाग्गोचरः॥ 37 ॥
हंहो वारिनिधे विधेः समुचितं येनासि रत्नाकरो रत्नांश्चेदवमन्यसे वद विभो नैतत्पदं विन्दसि।
पश्यालङ्करणं पुरन्दरपुरे चिन्तामणिः कौस्तुभं विष्णोर्वक्षसि मीनकेतनरिपोः शीर्षे कलानां निधिः॥ 38 ॥
पीत्वा गर्जन्त्यपस्ते दिशि दिशि जलदास्त्वं शरण्यो गिरीणां सुत्रामत्रासभाजां त्रिदशविटपिनां जन्मभूमिस्त्वमेव।
गाम्भीर्यं तच्च तादृक्त्वयि सलिलनिधे किंतु विज्ञाप्यमेतत्सर्वोपायेन मैत्रावरुणिमुनिकृपादृष्टयः काङ्क्षणीयाः॥ 39 ॥


  1. अवमानः. ↩︎ ↩︎

  2. अचतुरत्वम्. ↩︎ ↩︎

  3. जानुप्रमाणः. ↩︎ ↩︎

  4. वायुनोल्लासिता उत्पादिताः कल्लोला महोर्मयो यस्य. ↩︎ ↩︎

  5. गिरिमथनेन हृतं सर्वं स्वं चतुर्दशरत्नात्मकं धनं यस्य. ↩︎ ↩︎

  6. नौकास्थिताः. नाविका इत्यर्थः. ↩︎ ↩︎

  7. पिपासा; [पक्षे] अर्थाभिलाषः. ↩︎

  8. अगस्त्यः. ↩︎

  9. शिखरिणः पर्वतास्त एव पत्रिणः पक्षिणः. ↩︎

  10. सङ्कर्तकसंज्ञकैर्मेघैः. ↩︎