०४ पाञ्चजन्यः

सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधेर्गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः।
श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे॥ 81 ॥
शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः।
एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां यः सम्वर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते॥ 82 ॥