०७ माणिक्यम्

पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्त्र पाश्चात्यसङ्घैरौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम्।
यद्येतस्मिन्कथञ्चित्कथयति कृपणः कोऽपि मालिन्यमन्ये प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं सङ्गिरन्ते॥ 72 ॥
%काचः%॥ अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम्।
नृपतिर्वहेत शिरसा तेनासौ न 1ह्यनर्घ्यमणिः॥ 73 ॥

%शङ्खः%॥ अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः।
हुंकरोति यदा ध्मातस्तदैव बहु गण्यते॥ 74 ॥
उच्चैरुच्चरतु चिरं झिल्ली वर्त्मनि तरुं समारुह्य।
दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः॥ 75 ॥
कीटगृहं कुटिलोऽन्तः कठिनः क्षाराम्बुसम्भवः शून्यः।
शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लेभे॥ 76 ॥
जलनिधौ जननं धवलं वपुर्मुररिपोरपि पाणितले स्थितिः।
इति समस्तगुणान्वित शङ्ख भो 2कुटिलता हृदये न निवारिता॥ 77 ॥

ध्वनिरतिमधुरः शुचित्वमुच्चैर्जनिरपि शङ्ख नदीनतस्तवाभूत्।
अवगतमखिलं बहिस्तवेदं कुटिलतरं पुनरन्तरं न विद्मः॥ 78 ॥
क्व वाम्भोदौ जन्म क्व च वपुरिदं 3कुन्दधवलं क्व चावासस्थानं कृतमहह विष्णोः करतलम्।
क्व नीचानामास्ये परिणतिरियं चुम्बनविधावितीवायं शङ्खः करुणकरुणं रोदिति मुहुः॥ 79 ॥

तातः क्षीरनिधिः 4स्वसा 5जलधिजा भ्राता सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि।
धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्ताकरे विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिंभरिः॥ 80 ॥


  1. अमूल्यः. ↩︎

  2. कौटिल्यम्. ↩︎

  3. कुन्दपुष्पवच्छुभ्रम्. ↩︎

  4. भगिनी. ↩︎

  5. लक्ष्मीः. ↩︎