०६ मरकतः

त्यज निजगुणाभिमानं मरकत पतितोऽसि 1पामरे वणिजि।
काचमणेरपि मौल्यं लभसे यत्तदपि ते श्रेयः॥ 69 ॥

केनासीनः सुखमकरुणेनाकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे।
यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि॥ 70 ॥
आसीत्पूर्वं विमलजलधौ 2मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात्।
तन्त्रीबद्धः कथमिदमहो 3काचखण्डेन 4सार्धं भिल्लीकण्ठे मरकतमणे कामवस्थां गतोऽसि॥ 71 ॥


  1. नीचे. ↩︎

  2. भूषणम्. ↩︎

  3. काचमणिना. ↩︎

  4. सह. ↩︎