०२ कौस्तुभमणिः

न श्वेतांशुवदन्धकारदलनादुद्द्योतिते रोदसी नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः।
नो चिन्तामणिरत्नवत्त्रिभुवने छिन्ना विपद्वार्थिनां भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम्॥ 65 ॥