+०३ रत्नानि

मणिर्लुठति पादेषु काचः शिरसि धार्यते।
यथैवास्ते तथैवास्तां काचः काचो मणिर्मणिः॥ 47 ॥
अप्याकरसमुत्पन्ना मणिजातिरसम्स्कृता।
जातरूपेण कल्याणि नहि संयोगमर्हति॥ 48 ॥
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम्।
येन पाषाणखण्डस्य मूल्यमल्यं वसुन्धरा॥ 49 ॥
धन्योऽयं मणिरेकश्छिन्नो भिन्नश्च क्रचकनिर्घृष्टः।
युक्तस्तेजोनिचयैर्धन्यो दुःखेऽपि योऽधिकाभासः॥ 50 ॥
भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं 1तिरोहितं रजसा।
2विधिविलसितेन रत्नं जनचरणविडम्बनां सहते॥ 51 ॥

वपुः- 3परीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति।
तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः॥ 52 ॥

सिन्धुस्तरङ्गैरुपकल्प्य फेनान् रत्नानि पङ्कैर्मलिनीकरोति।
तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते॥ 53 ॥
विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः।
विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः॥ 54 ॥
अनिभालित एव केवलं खनिगर्भे निधिरेष जीर्यतु।
न तु सीदतु मूल्यहानितो वणिजालोकनगोचरीकृतः॥ 55 ॥
समुद्रेणान्तस्थस्तटभुवि तरङ्गैरकरुणैः समुत्क्षिप्तोऽस्मीति त्वमिह परितापं त्यज मणे।
अवश्यं क्वापि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस्त्वां कुर्यान्निजमुकुटकोटिप्रणयिनम्॥ 56 ॥
पयोधेः सर्वस्वं शिरसि धृतवान्यं नृपगणः पणो यस्य क्षोणी चतुरुदधिसीमावधिरभूत्।
स एवायं दैवाच्छबरवनितापाणिपतितो मणिर्मेषग्रीवाद्विगुणगुणबद्धो विहरति॥ 57 ॥
आघ्रातं 4परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्बत नीरसत्वकुपितेनेति व्यथां मा कृथाः।
हे सद्रत्न तवैतदेव कुशलं यद्वानरेणाग्रहादन्तःसारविचार5णव्यसनिना चूर्णीकृतं 6नाश्मना॥ 58 ॥

उत्तंसेषु न नर्तितः क्षितिभुजां न प्रेक्षकैर्लक्षितः साकाङ्क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित्।
कष्टं भोश्चिरमन्तरेण जलधैर्दैवाद्विशीर्णोऽभवत्खेलव्यालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः॥ 59 ॥
ये गृह्णन्ति हठात्तृणानि मणयो ये चाप्ययः खण्डकं ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसङ्ख्याश्चिरम्।
नो जाने किमभावतः किमथवा दैवादहो श्रूयते नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः॥ 60 ॥
यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव।
तत्तस्यैव परिक्षयो जलनिधेर्द्वीपान्तरालम्बिनो रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः॥ 61 ॥
यत्रानुल्लिखिताख्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा।
याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्सम्पदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम्॥ 62 ॥
काचाः काञ्चनभूषिताः कति न वा मुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्यपधियस्तानेव रत्नभ्रमात्।
अक्ष्णां ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेष्वप्यभिज्ञाः पृथक्॥ 63 ॥


  1. छादितम्. ↩︎

  2. दैवदुर्विपाकेन. ↩︎

  3. विशालता. ↩︎

  4. आस्वादितम्. ↩︎

  5. तत्परेण. ↩︎

  6. पाषाणेन. ↩︎