मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥ 42 ॥
अखर्वपर्वगर्तेषु विच्छिन्नो यस्य वारिधिः।
हा स एव मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः॥ 43 ॥
अल्पीयसैव पयसा यत्कुम्भः पूर्यते प्रसिद्धं तत्।
1ब्राह्मं तेजः पश्यत कुम्भोद्भूतः पपौ 2वार्धिम्॥ 44 ॥
गतोऽस्मि तीरं जलधेः पिपासया स चापि शुष्कश्चुलुकीकृतो मया।
न लक्ष्यते दोषलवोऽपि तोयधेर्ममैव तत्कर्मफलं विजृम्भते॥ 45 ॥
कम्पन्ते गिरयः 3पुरन्दरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्भुधराः स्फुरन्ति वडवावक्त्रोद्गता वह्नयः।
भो कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते साम्प्रतं निद्रालुश्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति॥ 46 ॥