०१ क्षीरसागरः

दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम्।
स परमपरः क्षीरोदन्वान्यदीयमुदीर्यते मथितुरमृतं खेदच्छेदि प्रभोरनुमोदनम्॥ 40 ॥
साकं 1ग्रावगणैर्लुठन्ति मणयो बालार्कबिम्बोपमा नीरे नीरचरैः समं स भगवान्निद्राति नारायणः।
एवं वीक्ष्य तवाविवेकमथ च प्रौढिं परामुन्नतेः किं निन्दाम्यथवा स्तवीमि कथय क्षीरार्णव त्वामहम्॥ 41 ॥


  1. पाषाणसमूहैः. ↩︎