नाधन्यानां निवासं विदधति गिरयः शेखरीभूतचन्द्राः शृङ्गैर्ज्योत्स्नाप्रवाहं द्रुतमिव तुहिनं दिङ्मुखेषु क्षिपन्तः। येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पितानामाकाशे विप्रकीर्णः कुसुमचय इवाभाति ताराग्रहौघः॥ 1 ॥