१० गिरिनिर्झरः

कल्लोलसञ्चलदगाधजलैरलोलैः कल्लोलिनीपरिवृढैः किमपेयतोयैः।
जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति॥ 17 ॥