रोहणाचल शैलेषु कस्तुलां तुलयेत्तव।
यस्य पाषाणखण्डानि मण्डनानि महीभृताम्॥ 13 ॥
रत्नानां किमालयो जलनिधिः किं न स्थिरा मेदिनी किं न व्योम महत्पदं सुकृतिनां किं नाम नैवोन्नतम्।
हंहो रोहण किं न याचकचमूनिःशङ्कटङ्काहतिक्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान्॥ 14 ॥
यामस्ते शिवमस्तु रोहणगिरे मत्तः स्थितिप्रच्युता वर्तिष्यन्त इमे कथं कथमिति स्वप्नेऽपि मैवं कृथाः।
भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः॥ 15 ॥