०६ मैनाकः

शक्रादरक्षि यदि पक्षयुगं तथापि मैनाक सन्ति तव नेह गतागतानि।
निः1 सत्त्वता च निरपत्र2पता च किन्तु पाथोनिधौ निवसता भवतार्जितात्र॥ 10 ॥

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैरुद्गच्छद्बहलदहनोद्गारगुरुभिः।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ सम्पातः पयसि पयसां पत्युरुचितः॥ 11 ॥


  1. निर्बलत्वम्. ↩︎

  2. निर्लज्जत्वम्. ↩︎