किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिता हि तरवस्तरवस्त एव।
मन्यामहे मलयमेव यदाश्रयेण शाखोटनिम्बकुटजा अपि चन्दनानि॥ 7 ॥
विद्योतन्ते कति न गिरयस्तेषु किं नोदयन्ते शाखावन्तः खदिरबदरीशालशाखोटकाद्याः।
धन्यस्तावन्मलयशिखरी यत्र जातास्त एव स्वैरामोदैस्त्रिभुवनमथ प्रीणयन्तः स्फुरन्ति॥ 8 ॥