तरुकुलसुषमापहरां जनयन्तीं जगति जीवजातार्तिम्।
केन गुणेन भवानीतात हिमानीमिमां वहसि॥ 2 ॥
विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत्।
ईश्वरश्वशुरताप्रभावतस्तद्ध्रुवं जगति जृम्भते यशः॥ 3 ॥
क्षोणी यस्य हिरण्मयी मणिमयः प्राकारशिल्पोच्चयः कुञ्जाः कल्पतामयाः सुरधुनीधारामयो निर्झरः।
किं चेन्द्रादिसमस्तदिक्पतिपुरीमय्यन्ति यत्पल्लवाः शैलः सोऽपि गिरिर्वयं च गिरयस्त्वय्येव मे का मतिः॥ 4 ॥