वायुरेव 1महाभूतं वदन्तु निखिला जनाः।
2आयुरेवैष भूतानामिति मन्यामहे वयम्॥ 1 ॥
अलिपटलैरनुयातां स्वहृदयहृदयज्वरं विलुम्पन्तीम्।
मृगमदपरिमललहरीं समीर किं पामरेषु रे किरसि॥ 2 ॥
परमो मरुत्सखाग्नेस्तेजोवृद्धिं तनोतु तं जेतुम्।
दीपं हरति तदस्य ज्ञातं प्रतिपत्तिनिर्वहणम्॥ 3 ॥
प्राथमिकी घनवृष्टिः प्राप्ता शिखिनो निदाघतप्तस्य।
आकस्मिकेन सा पुनरपनीता क्वापि पवनेन॥ 4 ॥
वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः।
तत्कुसुमबहलपरिमलगुणविन्यासे कृति त्वेकः॥ 5 ॥
गन्धवाह गहनानि गाहसे गन्धजातमिह सञ्चिनोषि च।
नैपुणच्युतिरियं तु तावकी यत्र तत्र सदसद्विवेचनम्॥ 6 ॥
अहह चण्डसमीरण दारुणं किमिदमाचरितं चरितं त्वया।
यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितम्॥ 7 ॥
अनिल निखिलविश्वं प्राणित त्वत्प्रयुक्तं सपदि च विनिमीलत्याकुलं त्वद्वियोगात्।
वपुरसि परमेशस्योचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि॥ 8 ॥
राजीविनीविपिनसौरभसारगन्धिर्योऽभूद्वसन्तदिवसेषु जनैकबन्धुः।
रथ्यारजांसि विकिरन्विरुजन्नगेन्द्रानुन्मत्तवद्भ्रमति पश्यत सोऽद्य वायुः॥ 9 ॥
ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित्पद्भ्यामेव विमर्दिताः प्रतिदनं भूमौ विलीनाश्चिरम्।
उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्वन्त्यमी पांसवः॥ 10 ॥
हंहो दग्धसमीर सर्पति भवत्यस्मिन्वने शाखिनां शाखाघर्षणजः स कोऽपि सुचिरं जज्वाल दावानलः।
येनादाहि पलायमानहरिणं भस्मीभवद्भूरुहं शुष्यन्निर्झरमुत्पतत्खगकुलं चेष्टद्बुजङ्गं वनम्॥ 11 ॥
हंहो धीर समीर हन्त जननं ते 1चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परिचयो गोदावरीवारिभिः।
प्रत्यङ्गं दहतीह मे त्वमपि चेदुद्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचरः किं वक्ष्यते कोकिलः॥ 12 ॥
कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम्।
अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन सह्यो वपुषि कलुषातादोष एषस्तवैव॥ 13 ॥