1प्रावृषेण्यस्य मालिन्यं दोषः कोऽभीष्टवर्षिणः।2
शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते॥ 1 ॥
चातकः स्वानुमानेन जलं प्रार्थयतेऽम्बुदात्।
स स्वौदार्यतया सर्वां प्लावयत्यम्बुना महीम्॥ 2 ॥
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः।
अस्माकमर्कवृक्षाणां पूर्वपत्त्रेऽपि संशयः॥ 3 ॥
आसन्यावन्ति याञ्चासु चातकाश्रूणि चाम्बुद।
तावन्तोऽपि त्वया मेघ न मुक्ता वारिबिन्दवः॥ 4 ॥
त्वमेव चातकाधार इति केषां न गोचरः।
धिगम्भोधर तस्यापि कार्पण्योक्तिं प्रतीक्षसे॥ 5 ॥
यदम्बुकणमादाय प्राप्तोऽसि जलदोन्नतिम्।
तस्योपर्यम्बुधेर्गर्जा मलिनस्योचितैव ते॥ 6 ॥
नोपेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः।
तथापि हरते तापं लोकानामुद्यतो घनः॥ 7 ॥
समागमिष्यतोऽम्भोद वेत्ति कः समयं तव।
रौति नो यदि सारङ्गस्तदोच्चैः खे पुरःसरः॥ 8 ॥
आश्रयः कियतामेष तरुः सन्मार्गमाश्रितः।
पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः॥ 9 ॥
सन्ति कूपाः स्फुरद्रूपाः सागरः सरितस्तथा।
तथापि चातकस्यैकः फलदो जलदोदयः॥ 10 ॥
नदेभ्योऽपि ह्रदेभ्योऽपि पिबन्त्यन्ये सदा पयः।
चातकस्य तु जीमूत भवानेवावलम्बनम्॥ 11 ॥
एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य।
विश्वं सशैलकाननमाननमवलोकते यस्य॥ 12 ॥
सम्प्रति न कल्पतरवो न सिद्धयो नापि देवता वरदाः।
जलद त्वयि विश्राम्यति सृष्टिरियं भुवन (?) लोकस्य॥ 13 ॥
क्षणदृष्टनष्टतडितो निजसम्पत्तेः पयोदनिवहेन।
ज्ञातं साधु यदुचितं भुवनेभ्यो वितरता वारि॥ 14 ॥
जलधर जलभरनिकरैरपहर परितापमुद्धतं जगतः।
नो चेदपसर दूरं हिमकरकरदर्शनं वितर॥ 15 ॥
अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः।
तदयमचिरेण भविता सलिलाञ्जलिदानयोग्यस्ते॥ 16 ॥
नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु क्वापि।
तत्किं तत्र न मुञ्चसि मुक्ता मुक्ता भवन्ति यत्रापः॥ 17 ॥
1धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः।
2उन्मदवारणबुद्ध्या मध्ये जठरं समुच्छलति।3॥ 18 ॥
जलदः समुद्रसेवामाचरति समग्रभुवनभरणाय।
कुरुते 4तामपि 5हतमतिरा6त्मंभरिर7निशमौर्वा8ग्निः॥ 19 ॥
सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः।
प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन॥ 20 ॥
प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरं भ्रमसि।
चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि॥ 21 ॥
यद्यपि सन्ति बहूनि सरांसि स्वादुसुशीतलसुरभिपयांसि।
चातकपोतस्तदपि च तानि त्यक्त्वा याचति जलदजलानि॥ 22 ॥
एतदत्र पथिकैकजीवितं पश्य शुध्यतितरां महत्सरः।
धिङ् मुधाम्बुधर रुद्धसद्गतिर्वर्धिता किमिह तेऽद्रिवाहिनी॥ 23 ॥
मुञ्च मुञ्च सलिलं दयानिधे नास्ति नास्ति समयो विलम्बने।
अद्य चातककुले मृते पुनर्वारि वारिधर किं करिष्यसि॥ 24 ॥
चातकस्य खलु चञ्चुसम्पुटे नो पतन्ति किल वारिबिन्दवः।
सागरीकृतमहीतलस्य किं दोष एष जलदस्य दीयते॥ 25 ॥
ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः।
क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः॥ 26 ॥
आपो विमुक्ताः क्वचिदाप एव क्वचिन्न किञ्चिद्गरलं क्वचिच्च।
यस्मिन्विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन्विमुखः कुतस्त्वम्॥ 27 ॥
पानीयमानीय परिश्रमेण पाथोद पाथोनिधिमध्यतस्त्वम्।
कल्पद्रुमे सीदति साभिलाषे महोषरे मुञ्चसि किं निमित्तम्॥ 28 ॥
पपात पाथःकणिका न भूमाववाप शान्तिं ककुभां न तापः।
दृष्ट्वैव जीवातुरयं तडित्वान्कृषीवलानां मुदमाततान॥ 29 ॥
प्रथितोऽसि यतस्ततः पृथिव्यामपि जीमूत जनस्य जीवनेन।
विषयानपि गच्छतः किमेतान्ध्वनिभिर्भीषयसीह राजहंसान्॥ 30 ॥
गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन।
कियती चातकचञ्चुपुटी सापि भृता न जलेन॥ 31 ॥
गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम्।
दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः॥ 32 ॥
वितर वारिद वारि 1दवातुरे चिरपिपासितचातकपोतके।
प्रचलिते 2मरुति क्षणमन्यथा क्व च भवान्क्व पयः क्व च चातकः॥ 33 ॥
किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा नववीरुधाम्।
अयमकारणकारुणिको न चेद्वितरतीह पयांसि पयोधरः॥ 34 ॥
पयोद हे वारि ददासि वा न वा त्वदेकचित्तः पुनरेष याचकः।
वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनाम्॥ 35 ॥
दीनानामिह परिहाय शुष्कसस्यान्यौदार्यं प्रकटयतो महीधरेषु।
औन्नत्यं परममवाप्य दुर्मदस्य ज्ञातोऽयं जलधर तावको विवेकः॥ 36 ॥
अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः।
शाखोटकस्य पुनरस्य महाशयोऽयमम्भोद एव शरणं यदि निर्गुणस्य॥ 37 ॥
आश्वास्य पर्वतकुलं तपनोष्मतप्तं दुर्दाववह्निविधुराणि च काननानि।
नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमा श्रीः॥ 38 ॥
एतेषु हा तरुणमारुतधूयमानदावानलैः कवलितेषु महीरुहेषु।
अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः॥ 39 ॥
शोषं गते सरसि शैवलमञ्जरीणामन्तस्तिमिर्लुठति तापविशीर्णदेहः।3
अत्रान्तरे यदि न वारिद वारिपूरैराप्लावयेस्तदनु किं 4मृतमण्डनेन॥ 40 ॥
शृण्वन्पुरः परुषगर्जितमस्य हन्त रे पान्थ विह्वलमना न मनागपि स्याः।
विश्वार्तिवारणसमर्पितजीवनोऽयं नाकर्णितः किमु सखे भवताम्बुवाहः॥ 41 ॥
यत्तादृशेषु सरलेषु न पक्षपातो जातो बत स्फुटमसौ कुटजेषु रागः।
विश्वैकजीवनपटोरपि वारिवाह दुर्वारवायुवशगस्य न तद्विचित्रम्॥ 42 ॥
यत्पल्लवः समभवत्कुसुमं यदासीत्तत्सर्वमस्य भवतः पयसः प्रसादः।
यद्भूरुहे फलविधौ न ददासि वारि प्राचीनमम्बुद यशो मलिनीकरोषि॥ 43 ॥
नैवालवालवलयं भरितं द्रुमाणां नार्द्रीकृतापि बत चातकपोतचञ्चुः।
दावानलाकुलतरुः शमितो न शीघ्रं भाराय वारिधर वारिपदं तवाभूत्॥ 44 ॥
के वा न सन्ति भुवि वारिरुहावतंसा हंसावलीवलयिनो जलसन्निवेशाः।
किं चातकः फलमपेक्ष्य स वज्रपातां पौरन्दरीं कलयते नववारिधाराम्॥ 45 ॥
वातैर्विधूनय बिभीषय भीमनादैः सञ्चूर्णय त्वमथवा करकाभिघातैः।
त्वद्वारिबिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद चातकस्य॥ 46 ॥
व्याजस्तुतिस्तव पयोद मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि।
स्तोत्रं तु ते महदिदं घन धर्मराजसाहाय्यमर्जसि यत्पथिकान्निहत्य॥ 47 ॥
सम्पादिताः सपदि दर्दुरदीर्घनादा यत्कोकिलाकलरुतानि निराकृतानि।
निष्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवता विहितो विवेकः॥ 48 ॥
यस्योदये गुरुमनोरथमन्थरेण सञ्चिन्तितं किमपि चेतसि चातकेन।
आः कष्टमिष्टफलदानविधानहेतोरम्भोधरात्पतति सम्प्रति वज्रवह्निः॥ 49 ॥
1दवदहनजटालज्वालजालाहतानां परिगलितलतानां 2म्लायतां भूरुहाणाम्।
अयि जलधर शैलश्रेणिशृङ्गेषु तोयं वितरसि बहु कोऽयं श्रीमदस्तावफीनः॥ 50 ॥
नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिषण्णोत्तानचञ्चूपुटेन।
जलधर जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन॥ 51 ॥
अये हेलावेलालुलितकुलशैले जलनिधौ कुतो वारामोघं बत जलद मोघं विसरसि।
समन्तादुत्तालज्वलदनलकीलाकवलनक्लमोपेतानेतानुपकुरु पयोभिर्विटपिनः॥ 52 ॥
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः किमेभिर्निर्घोषैः3 सृज 4झटिति झाङ्कारि सलिलम्।
अये पश्यावस्थामकरुणसमीरव्यतिकरज्वलद्दावज्वालावलि5जटिलमूर्तेर्विटपिनः6॥ 53 ॥
अकूपाराद्वारि प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि प्रकिरति जलं नाद्भुतमिदम्।
स मेघो धन्यो यत्परिकिरति मुक्ताफलतया यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे॥ 54 ॥
तवैव प्रावीण्यं जलद जगदानन्दकरणं यदम्भःपालीराहरसि खलसत्त्वाज्जलनिधेः।
निसर्गात्क्षारास्ता नयसि च कथंचिन्मधुरतामथासारैस्तासां युगपदुपकर्तासि जगतः॥ 55 ॥
विलपति तथा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथञ्चिदुपस्थितः।
उपकुरु कुरु प्रह्वं चेतो न वेत्सि यदग्रतो जलधर पुनः क्व त्वं क्वायं क्व ते जलबिन्दवः॥ 56 ॥
नीरं दूरं तदपि विरसं जङ्गमा नो लताद्यास्तस्मिन् दातर्यपि जलनिधौ को लभेताम्बुबिन्दुम्।
दानाध्यक्षे त्वयि जलधर क्वापि कुत्रापि शैलाः शालावन्तोऽमृतनिभजलैस्तर्पिताः सर्व एते॥ 57 ॥
तृप्त्या नद्यः कमलसरसी राजहंसावतंसाः पुण्याश्चेतो हिमगिरिभुवस्त्वत्कृते येन मुक्ताः।
सम्प्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा॥ 58 ॥
शैलेयेषु शिलातलेषु च गिरेः शृङ्गेषु गर्तेषु च श्रीखण्डेषु बिभीतकेषु च तथा पूर्णेषु रिक्तेषु च।
स्निग्धेन ध्वनिनाखिलेऽपि जगतीचक्रे समं वर्षतो वन्दे वारिद सार्वभौम भवतो विश्वोपकारि व्रतम्॥ 59 ॥
नीहाराकरसारसागरसरित्कासारनीरश्रियं त्यक्त्वा तोयद चातकेन महती सेवा समालम्बिता।
तस्यैतत्फलितं समुज्झसि शिलासन्ताडनं मस्तके गाढं गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि॥ 60 ॥
1आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं नयागुरुतरोरेतस्य दावज्वरम्।
ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसम्पदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति॥ 61 ॥
यावत्तिष्ठति चातकोऽयमसुभिः कण्ठस्थलस्थायिभिस्तावद्देहि पयः पयोद फलतु त्वद्द्वारि कल्पद्रुमः।
नो चेदस्य तृषार्तपीडिततनोः प्राणैः प्रयाणे कृते कस्मै दास्यसि को ग्रहीष्यति पुनस्तापस्तु ते स्थास्यति॥ 62 ॥
कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः सामान्यं बकटिट्टिभैः सह सरस्येवं समालोकयन्।
शुष्यत्तालुगलोऽपि कम्पिततनुः श्रुत्वा गभीरध्वनिं धैर्यादुद्धृतकन्धरो जलधर त्वां याचते चातकः॥ 63 ॥
मार्गो भूरि जलं मरुस्थलभुवि स्वप्नेऽपि नो लभ्यते तीव्रो वाति समीरणः क्वचिदपि च्छायाभृतो न द्रुमाः।
अङ्गारप्रकरान्किरन्निव रविर्ग्रीष्मे तपत्यम्बरे तद्भोः पान्थहिताय पूरय धरां पाथोद पाथोभरैः॥ 64 ॥
भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठितैर्यस्मिन्मुहुर्मूर्च्छितम्।
तस्मिञ्शुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं यत्राकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते॥ 65 ॥
कालातिक्रमणं कुरुष्व तडितां विस्फूर्जितैस्त्रासय स्फारैर्भीषणगर्जितैरतितरां कार्ष्ण्यं मुखे दर्शय।
अस्यानन्यगतेःपयोद मनसो जिज्ञासया चातकस्याधेहि त्वमिहाखिलं तदपि न त्वत्तः परं याचते॥ 66 ॥
भूयो गर्जितमम्बुद प्रकटिता विद्युत्खमापूरितं दूरावग्रह तिष्ठ तिष्ठ तदलं वृष्ट्या तवातःपरम्।
निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रैः परं नैराश्यादिह वर्षितव्यमधुना केदारपूरं पयः॥ 67 ॥
गर्जन्नम्बु ददाति तच्च कणिकारूपेण यत्र क्वचिद्वर्षाकालमपेक्ष्य दानसमये 2कार्ष्ण्यं विधत्ते मुखे।
पश्चात्पाण्डुरतामुपैति लघुतामप्येति भूयस्ततः श्रीमद्राम नृपालशेखरविभो दाता कियान्वारिदः॥ 68 ॥
आसक्ताः प्रतिकोटरं विषधरा भानोः करा मूर्धनि ज्वालाजालकरालदावदहनः प्रत्यङ्गमालिङ्गति।
सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहुशो युष्मद्यशो जृम्भताम्॥ 69 ॥
ते ते चातकपोतका वितृषिता दावाग्निमग्नं वनं सन्निर्वापितमुष्णतापितमही निर्वापिता सर्वतः।
कासाराः परिपूरिताः पृथुपयोधाराभिरम्भोधर त्वय्येवायमहो महोर्जितमहादानावदानक्रमः॥ 70 ॥
तापं लुम्पसि सर्वतो वितरसे मुक्ताफलं शुक्तिषु क्षेत्रं सिञ्चसि किं च पल्लवयसि श्रीखण्डमुख्यान्द्रुमान्।
क्षारं क्षारमिदं जलं जलनिधेरादाय जीमूत हे विश्वं जीवयसि ब्रवीतु जगति प्रौढोऽपि कस्ते गुणान्॥ 71 ॥
सन्तापं जगतो विलुम्पसि धरां धाराभिरासिञ्चसि क्षेत्राण्यङ्कुरयस्यमून्मुकुलयस्यह्नाय नीपद्रुमान्।
सारङ्गस्य नभोनिवेशितदृशश्चञ्चूपुटीपूरणे वैमुख्यं वहसि त्वमम्बुद यदि प्रत्येतु को नाम तत्॥ 72 ॥
कूपाम्भांसि पिबन्तु कूपरसिका वापीषु वापीजुषो नादेयाश्च पतत्रिणोऽपि मुदिता आस्वादयन्तामपः।
सारङ्गस्य नभोनिवेशितदृशः किं तेन यावन्महीमम्भोभिः स्नपयन्नसावुदयते न प्रावृषेण्यो घनः॥ 73 ॥
कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः।
शीर्णे पुष्पफले जले विगलिते मूले गते शुष्कतां कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति॥ 74 ॥
नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभिर्नो देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि।
अम्भोदेह निरन्तरं जलभरैस्तामुर्बरां सिञ्चता धौरेयेण धुरं त्वयाद्य वहता मन्ये जगज्जीवितम्॥ 75 ॥
हे पाथोह यथोन्नतेन भवता दिग्व्यावृता सर्वतो मन्ये धीर तथा करिष्यसि खलु क्षीराब्धितुल्यं सरः।
किं त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्याकुलः पाठीनादिगणस्त्वदेकशरणस्तद्वर्ष तावत्कियत्॥ 76 ॥
1नान्धौ स्कन्धनतिः सरःसु न मनो वापीषु नापीहितं कर्णेऽप्यर्णवसङ्कथा न च कृता नाद्यापि नद्यां मनः।
सारङ्गेण समुत्तरङ्गरसनादण्डेन चण्डातपक्लान्तेनापि निरन्तरं जलद हे त्वय्येव दत्तं मनः॥ 77 ॥
निःपद्मं शिशिरेण धीवरगणैः र्निर्मत्स्यनिःकूर्मकं व्याधैर्निर्विहगं निरम्बु रविणा निर्नालकं दन्तिभिः।
निःशालूकमकारि शूकरगणैर्नामैकमात्रं सरो हे जीमूत परोपकारक पयोदानेन मां पूरय॥ 78 ॥
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक्तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानिनाम्।
इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादरादुद्ग्रीवस्तव वारिवाह कुरुते धाराधरालोकनम्॥ 79 ॥
रे धाराधर धीर नीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरित्वया।
एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्नाश्चर्यं परिपीडितोऽभिरमते यच्चातकस्तृष्णया॥ 80 ॥
आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा॥ 81 ॥
ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यच्चातकस्त्वां ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान्।
दैवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करकानिपातनकृपा तत्कं प्रति ब्रूमहे॥ 82 ॥
स क्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं गृह्यन्ते सरितः श्रमेण परितोऽप्याधारबन्धं बलात्।
प्राप्यं कूपकतः कथञ्चन किमप्यारोप्य कण्ठे पदं तत्त्वा त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे॥ 83 ॥
हर्षं वर्षन्विधत्से चिरसमयतृषाशुष्यतां चातकानां भूमेस्तापोपशान्तिं वितरसि तरसा लोकशोकं धुनोषि।
अम्भोदैतत्तवैकं परममनुचितं यत्पिधत्से सुधांशुं वाचामीशं कविं वा बुधमपि वहसि प्रेम खद्योतवर्गे॥ 84 ॥