1आलोकवन्तः सन्त्येव 2भूयांसो भास्करादयः।
3कलावानेव तु ग्रावद्रावकर्मणि कर्मठः4॥ 1 ॥
दैवाद्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहः।
तथापि किं 5कपालानि तुलां यान्ति कलानिधेः॥ 2 ॥
अहो नक्षत्रराजस्य साभिमानं विचेष्टितम्।
परिक्षीणस्य वक्रत्वं सम्पूर्णस्य सुवृत्तता॥ 3 ॥
व्यज्यमानकलङ्कस्य वृद्धौ सति कलानिधेः।
आशास्महे वयं पूर्वां सर्वश्लाघ्यां कृशां दशाम्॥ 4 ॥
क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोऽतिदूरताम्।
उपैति मित्त्रा6द्यच्चन्द्रो युक्तं 7तन्मलिनात्मनः॥ 5 ॥
निशाचरोऽपि दीनोऽपि सकलङ्गोऽपि चन्द्रमाः।
चकोरीनयनद्वन्द्वमानन्दयति सर्वदा॥ 6 ॥
हरमुकुटे सुरतटिनीनिकटस्थितिलाभतो द्विजेन्द्रेण।
8अपि गरलं फणिफूत्कृतिरीक्षणतीक्ष्णाशुशुक्षणिः क्षान्तः॥ 7 ॥
निजकरनिकरसमृद्ध्या धवलय भुवनानि पार्वण शशाङ्क।
सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि॥ 8 ॥
यद्यपि शिरोऽधिरोहति रौद्रः क्रोधेन सिंहिकातनयः।
त्यजति न शरणं यातं सागरसूनुर्मृगं तदपि॥ 9 ॥
प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्येव।
म्लायन्ति किन्तु सहसा भुवनान्यपि तमसि मज्जन्ति॥ 10 ॥
शङ्करशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले।
फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा॥ 11 ॥
या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सवः।
सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत्॥ 12 ॥
रञ्जिता न ककुभो निवेशिता नार्चिषो बत चकोरचञ्चुषु।
कष्टमिन्दुरुदये निपीयते दारुणेन 9तमसा बलीयसा॥ 13 ॥
किरति प्रकरं गवां प्रकर्षं सुमनःस्वच्छतरं विधौ कलानाम्।
कति चेत्कलयन्ति यत्प्रबोधं कति चेन्नेति स तत्स्वभाव एव॥ 14 ॥
निधेः कलानामपि रीतिरेषा मर्माणि मे संस्पृशतीव भूयः।
कुतो विशेषात्कुमुदेऽनुरागः कुतो विरागश्च कुशेशयेषु॥ 15 ॥
निष्पीडितो यद्यपि दैवयोगान्निशाकरश्चापि विधुंतुदेन10।
तथापि पीयूषविशेषवर्षी सुधाकरः कैरवकाननेषु।11॥ 16 ॥
वक्रोऽस्तु बाल्ये तदनु प्रवृद्धः कलङ्कवानस्तु जडोऽस्तु चन्द्रः।
महेशमौलौ च पदं दधातु जायेत वन्द्यो विविधोपकारात्॥ 17 ॥
तारागणाश्चन्द्रमसं भजन्ते न जातु नाथं12 नलिनाकराणाम्।
एतावता तस्य किमस्ति हानिर्ज्ञाता तयोरन्तरमेष लोकः॥ 18 ॥
यस्योदयेनैव दिशां प्रसादस्तापापनोदोऽपि जगत्त्रयस्य।
चकोरचञ्चूपुटपारणे तु चन्द्रस्य तस्यास्ति कियान्प्रयासः॥ 19 ॥
प्रकुर्वता सङ्गतिमिन्दुनाधुना किं किं च लब्धं जगदीश्वरेण वै।
कलङ्कहानिः सुरसिन्धुसङ्गमः कलाक्षयित्वं च पदं तथोच्चकैः॥ 20 ॥
नयनमसि जनार्दनस्य शम्भोर्मुकुटमणिः सुदृशां त्वमादिदेवः।
त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलङ्किनं वदन्ति॥ 21 ॥
13विरम तिमिर साहसादमुष्माद्यदि रविरस्तमितः स्वतस्ततः किम्।
14कलयसि न पुरो महोर्मिधाराद्युतिनिधिरभ्युदयत्ययं शशाङ्कः॥ 22 ॥
आस्ते विधुः परमनिर्वृत एव मौलौ शम्भोरिति त्रिजगतीजनचित्तवृत्तिः।
अन्तर्गि8गूढनयनानलदाहदुःखं जानाति कः परमृते बत शीतरश्मेः॥ 23 ॥
एकैव सामृतमयी सुतरामनर्घ्या काप्यस्त्यसौ हिमकरस्य कला ययैव।
आरोपितो गुणविदा परमेश्वरेण चूडामणौ न गणितोऽस्य कलङ्कदोषः॥ 24 ॥
श्रेयान्विधोर्बहुलपक्षपरिक्षयोऽपि नो पूर्णतापि जलधेरिह वर्णनीया।
यद्वारि न स्पृशति हन्त पृथग्जनोऽपि यस्यामृतैर्मखभुजोऽपि मुदं लभन्ते॥ 25 ॥
9मारस्य मित्त्रमसि किं च सुधामयूख शम्भावपि 10प्रणयितां प्रकटीकरोषि।
विश्वासपात्रमसि यद्द्विषतोस्तयोरप्येतत्तव प्रकृतिशुद्धतनोश्चरित्रम्॥ 26 ॥
रत्नाकरो जनयिता सहजश्च वर्गः किं कथ्यताममृतकौस्तुभपारिजाताः।
किं तैरचिन्त्यमिह तत्पुनरन्यदेव तत्त्वान्तरं कुमुदबन्धुरसौ यदिन्दुः॥ 27 ॥
नानन्दि कैरवमवर्धि न वाम्बुराशिरादीपि नाम्बरमहारि नवान्धकारः।
धिग्दैवदुर्विलसितं यदसौ सुधांशुरभ्यद्यतश्च 11तमसा कवलीकृतश्च॥ 28 ॥
चन्द्रं समाश्रयति नाम तिथिस्त्वनेका क्षीणस्तु बिम्बपरिपूर्णमपूरणाय।
एवं पुनः सकलमण्डलपूर्णवर्णं सा पूर्णिमैव खलु पूरयितुं समर्था॥ 29 ॥
स्मेरा दिशः कुमुदमुद्भिदुरं पिबन्ति ज्योत्स्नाकरम्भमुदरम्भरयश्चकोराः।
आः कीदृगत्रिमुनिलोचनदूषिकायां पीयूषदीधितिरिति प्रथितोऽनुरागः॥ 30 ॥
हिमकर परभागं भूषयिष्यन्सुमेरोर्व्रजसि यदि तदाहं न क्षमः सन्निरोद्धुम्।
इति तु बहुविधाभिः काकुभिः प्रार्थये त्वां पुनरपि कुमुदानामेत्यहार्यो विषादः॥ 31 ॥
कलास्तास्ताः सम्यग्वहसि यदसि त्वं द्विजपतिर्द्युतिस्तादृग्नूत्ना जनिरपि च रत्नाकरकुले।
बहु ब्रूमः किंवा पुरहरशिरोमण्डलमसि त्वदीयं तत्सर्वं शशधर कलङ्काद्विफलितम्॥ 32 ॥
पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः।
सोऽयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्दूरारोहो भवति महतामप्यपभ्रंशहेतुः॥ 33 ॥
त्वं भोः शम्भोर्निवससि शिरोदेशमाश्रित्य नित्यं तत्त्वां याचे जगदुपकृतिव्यापृतिव्यग्रमिन्दो।
यः सद्भावस्तव परिणतः कैरवे वा चकोरे स्पृश्यस्तेन प्रतिनिशमसौ चक्रवाको वराकः॥ 34 ॥
यज्जातोऽसि पयोनिधौ हरजटाजूटे प्रसिद्धोऽसि यद्विश्वस्योदरदीपकोऽसि विधिना सृष्टोऽसि यच्चामृतैः।
भ्रातः शीतमयूख सर्वमधुना म्लानीकृतं तत्त्वया राजीवं यदपास्य कैरवकुलं नीतं विकासास्पदम्॥ 35 ॥
पीयूषं वपुषोऽस्य हेतुरुदयो विश्वस्य नेत्रोत्सवः प्लुष्टं भानुकरैरिदं त्रिभुवनं ज्योत्स्नाभरैः सिञ्चति।
सर्वाशाप्रतिरोधकान्धतमसध्वंसाय बद्धोद्यमो धिग्धातारमिहापि लक्ष्म लिखितुं यस्य प्रवृत्तं मनः॥ 36 ॥
उच्चैःस्थानकृतोदयैर्बहुविधैर्ज्यो8तिर्भिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं प्रयात्ति परमां वृद्धिं स रत्नाकरः॥ 37 ॥
जन्म क्षीरमहार्णवे सहभुवः श्रीपारिजातादयो बिम्बं यस्य सुधामयं त्रिभुवनाधीशस्य मूर्ध्नि स्थितिः।
इत्थं सर्वचराचरप्रियकरे यस्योदये चेद्भवेत्सङ्कोचः कमलस्य दुष्कृतिरसौ निन्द्यो न ताराधिपः॥ 38 ॥
इन्दुं निन्दतु नाम वाथ नलिनीं निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः।
एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं चकोरपरिषच्चञ्चूपुटं न्यस्यति॥ 39 ॥
लक्ष्मीकेलिगृहे कुशेशयदृशां पाणिद्युतिद्रोहिणि श्यामासूक्तिसुधासहोदरमधुप्रस्यन्दसन्दोहिनि।
जीवातुस्त्रिदिवौकसां त्रिजगतामाप्यायनं चन्द्रमस्त्वं चेदम्बुरुहे न रज्यसि गुणश्लाघा बतास्तं गता॥ 40 ॥
यातेयं रजनी सहैव भवता भावी प्रकाशो दिशां सूर्येणापि चिरं चकोरनिचयैः स्थेयं क्वचित्कानने।
उद्यद्दारुणचण्डभानुजदवज्वाले जगन्मण्डले कस्मै चन्द्र समर्प्य कैरवकुलं व्योमान्तमालम्बसे॥ 41 ॥
नक्षत्राणि बहूनि सन्ति परितः पूर्णोदयान्यम्बरे किं तैः शान्तिमुपैति दीर्घतिमिरं किं 9वार्धिरुज्जृम्भते।
किं स्यादार्तचकोरपारणविधिर्भ्रातः सुधादीधिते तन्नूनं भुवनैकतापशमनः श्लाघ्यस्तवैवोदयः॥ 42 ॥
10ध्माता भालतलानलैः कवलिता कण्ठस्थहालाहलैरालीढाथ 11जटाटवीविलुठितैरा12शीविषाणां गणैः।
छन्ना भस्मभिराहतास्थिपटलैः क्लि13न्नार्द्रचर्माम्बरैः स्वीयां मुञ्चति माधुरीं हरशिरोरत्नं किमिन्दोः कला॥ 43 ॥
श्रीमाहेश्वरमौलिमण्डनमणिर्वैश्वम्भरं लोचनं त्वं रत्नाकरसम्भवः किमपरं भूदेवदेवो भवान्।
यद्भालानलसङ्गदोषरभसाद्दन्दह्यसे नोग्रजाज्जातं तत्किमिहास्ति ते सुमनसश्चित्रं कलानां निधे॥ 44 ॥
येनास्यभ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनागस्त्वेवं जडधामता तु भवतो यद्व्योम्नि विस्फूर्जसे॥ 45 ॥
जन्म क्षीरनिधौ तथैव विपुलं पीयूषपूर्णं वपुः सन्तापार्तिहरं हरस्य शिरसि स्थानं सदा सुन्दरम्।
तारानाथ निशामुखैकतिलक ख्यातौषधीनां पते चन्द्र त्वां वसनाञ्चलस्य दशया सम्भावयामः कथम्॥ 46 ॥
इन्दुर्यद्युदयाद्रिमूर्घ्नि न भवत्यद्यापि तन्मा स्म भून्नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः।
अप्यक्ष्णोर्मुदमुद्वहन्ति कुमुदैरामोदयन्ते दिशः सम्प्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यक्तुं प्रकाशिष्यते॥ 47 ॥
पूर्णः पङ्कजलोचनामुखतुलामायासि कालक्रमात्क्षीणोऽपि क्षणदापते पशुपतेरायासि भूषास्पदम्।
एतस्मिन्नथ सैंहिकेयकवलक्लेशे मनाग्वर्तिनि त्वं साधारणवत्सुधाकर मुधा हा हन्त किं ताम्यसि॥ 48 ॥
भीतो वाडववासतो जलनिधौ शम्भोः शिरः स्वीकृतं तत्र त्र्यम्बकमौलिवासुकिविषज्वालावलीत्रासितः।
तस्माल्लोकमगाद्दिवं निपतितस्तत्रैव राहोर्मुखं प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः॥ 49 ॥