रवेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः।
न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति॥ 1 ॥
1खद्योतो द्योतते तावद्यावन्नोदयते शशी।
उदिते तु 2सहस्रांशौ न खद्योतो न चन्द्रमाः॥ 2 ॥
तस्यैवाभ्युदयो भूयाद्भानोर्यस्योदये सति।
विकासभाजो जायन्ते गुणिनः कमलाकराः॥ 3 ॥
निमीलनाय पद्मानामुदयायाल्पतेजसाम्।
तमसामवकाशाय व्रजत्यस्तमसौ रविः॥ 4 ॥
3करस्फोटोम्बरत्यागस्तेजोहानिः सरागता।4
5वारुणीसङ्गजावस्था भानुनाप्यनुभूयते॥ 5 ॥
अजस्रं लसत्पद्मिनीवृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम्।
रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद्दोषदर्शी॥ 6 ॥
एतावत्सरसिजकुङ्मलस्य कृत्यं भित्त्वाम्भः सरसि विनिर्गमो बहिर्यत्।
आमोदो विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति॥ 7 ॥
देवो हरिर्वहतु वक्षसि कौस्तुभं तन्मन्ये च काचन पुनर्द्युमणेः प्रतिष्ठा।
यत्पादसङ्गतिसमर्पितसौरभाणि धत्ते स एव शिरसा सरसीरुहाणि॥ 8 ॥
उद्यन्त्वमूनि सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय।
सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः॥ 9 ॥
दिक्श्रीतमोहतिजगज्जनरञ्जनादि सर्वं भविष्यति रवेरिव चन्द्रतोऽपि।
किं त्वस्तगामिनि रवौ भविता न जाने राजीवजीवनविधौ कतमः प्रकारः॥ 10 ॥
अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठाम्।
दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन्किं नु लोकैरलोकि॥ 11 ॥
गते तस्मिन्भानौ त्रिभुवनसमुन्मेषविरहव्यथां चन्द्रो नेष्यत्यनुचितमितो नास्ति किमपि।
इदं चेतस्तापं जनयतितरामत्र यदमी प्रदीपाः सञ्जातास्तिमिरहतिबद्धोद्धुरशिखाः॥ 12 ॥
पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये।
एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः॥ 13 ॥
पततु नभसो गच्छत्वस्तं निमज्जतु वारिधौ व्रजतु वरुणागारद्वारं प्रभाभिरनादृतः।
तदपि तरणिर्दत्त्वा पादं शिरःसु महीभृतां दलिततिमिरव्रातः प्रातः पुनः सकृदेष्यति॥ 14 ॥
येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा।
तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो यद्बध्नाति धृतिं शशाङ्कशकलालोके प्रदीपेऽथवा॥ 15 ॥
यत्पादाः1 शिरसा न केन विघृताः 2पृथ्वीभृतां मध्यतस्तस्मिन्भास्वति3 राहुणा 4कवलिते लोकत्रयीचक्षुषि।
खद्योतैः स्फुरितं तमोभिरुदितं ताराभिरुज्जृम्भितं घूकैरुत्थितमाः किमत्र करवै किं किं न कैश्चेष्टितम्।5॥ 16 ॥
पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य 6नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजसं तेजसा।7
मध्याह्ने सरितां पयः प्रविततैरापीय दीप्तैः करैः सायाह्ने रविरस्तमेति विवशः किं नाम शोच्यं भवेत्॥ 17 ॥
दूरं यान्तु निशाचराः शशिकराः क्लेशं लभन्तान्तरामुद्योतं कलयन्तु हन्त न चिरं खद्योतका द्योतले।
ध्वान्तं ध्वंसमुपैतु हंसनिवहः पद्माकरे शाम्यतु प्राचीपर्वतमौलिमण्डनमणिः सूर्यः समुज्जृम्भते॥ 18 ॥