विलासमसृणोल्लसन्मुसललोकदोःकन्दलीपरस्परपरिस्खलद्वलयनिःस्वनोद्भन्धुराः। लसन्ति कलहुंकृतिप्रसभकम्पितोरःस्थलत्रुटद्गमकसङ्कुलाः कलमकण्डनीगीतयः॥ 41 ॥ इति श्री सुभाषितरत्नभाण्डागारे चतुर्थं प्रकरणं समाप्तम्। श्री कृष्णार्पणमस्तु — *** —