२६ लेखनकर्त्री

उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥ 39 ॥
यद्भूलते तरलिते यदुदङ्गुलीकः पाणिः पुरो यदपि चक्षुरलब्धलक्ष्यम्।
उन्मुद्रिताधरदलं च यदास्यमस्यास्तत्काव्यकर्मणि निषिक्तमवैमि चेतः॥ 40 ॥