२५ नर्तकी

स्वेदक्लेदितकङ्कणां भुजलतां कृत्वा मृदङ्गाश्रयां चेटीहस्तसमर्पितैकचरणा मञ्जीरसन्धित्सया।
सा भूयः कुचकम्पसूचितरयं निःश्वासमामुञ्चती रङ्गस्थानमनङ्गसात्कृतवती तालावधौ तस्थुषी॥ 38 ॥