२१ पथिकः

गायति हसति च नृत्यति हृदयेन धृतां प्रियां विचिन्तयति।
समविषमं न च विन्दति गृहगमनसमुत्सुकः पथिकः॥ 30 ॥
मातर्धर्मपरे दयां कुरु मयि श्रान्तेऽद्य वैदेशिके द्वारालिन्दककोणके सुनिभृतं यास्यामि सुप्त्वा निशि।
इत्युक्ते सहसा प्रचण्डगृहिणीवाक्येन निर्भर्त्सितः स्कन्धन्यस्तपलालमुष्टिविभवः पान्थः पुनः प्रस्थितः॥ 31 ॥
भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तबोद्धुष्यते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः।
इत्यालोक्य भृशं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः॥ 32 ॥
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णे दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुर्वीक्षते॥ 33 ॥