२० पुलिन्दः

वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुखस्यन्दच्छोणितलम्बमानशशकान्वेणीस्खलच्चामरान्।
ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्ततूणीरकान्सोऽपश्यत्करिकुम्भभेदजनितास्कन्दान्पुलिन्दान्पुरः॥ 29 ॥