आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघव्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः। काष्ठं दण्डं गृहाणेत्यतिमुखरजनैस्ताडितो लोष्टघातैर्भीतः सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति॥ 28 ॥