१८ गौरखरकृकलासौ

ग्रीष्मादित्यकरप्रतप्तसिकतामध्योपविष्टः सुखं शेते गौरखरो मरुस्थलभुवि प्रोथं निधाय क्षितौ।
गुञ्जज्जाहककण्टकाहतमरुद्धूतोत्पतद्धूलिभिश्छिन्नाङ्गः कृकलासकोऽपि निभृतं मार्तण्डमुद्वीक्षते॥ 27 ॥