न्यञ्चच्चञ्चलचञ्चुचुम्बनचलच्चूडाग्रमुग्रंपतच्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम्।
वारंवारमुदङ्घ्रिचञ्चलघनभ्रश्यन्नखक्षुण्णयोर्दृष्टा कुक्कटयोर्द्वयोः स्थितिरिति क्रूरक्रमं युध्यतोः॥ 25 ॥
पक्षावुत्क्षिप्य धुन्वन्सकलतनुरुहान्भोगविस्तारितात्मा प्रागेवोड्डीननिद्रः स्फुरदरुणकरोद्भासितं खं निरीक्ष्य।
प्रातः प्रोत्थाय नीडस्थितचपलतनुर्घर्घरध्वानमुच्चैरुद्गीवं पूर्वकायोन्नतविकटसटः कुक्कुटो रारटीति॥ 26 ॥