१६ बकः

नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम्।
जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानाम्॥ 23 ॥
स्थित्वा धैर्यादुपाम्भः समजठरशिराश्चक्रमूर्तिर्मुहूर्तं धूर्तः सन्त्यक्ततीरः कतिचिदपि पदान्युच्चकैः कुञ्चिताङ्घ्रिः।
पश्चाद्ग्रीवां प्रसार्य त्वरितगतिरपां मध्यमाविश्य चञ्च्वा चञ्चन्तीमूर्ध्वकण्ठः कथमपि शफरीं स्फारिताक्षो बकोऽत्ति॥ 24 ॥