दम्भोलिस्फूर्जदम्भोधरविपुलतडिद्दम्भगम्भीरनादैरम्भःसंभारसंभावनकुतुकिकुलं चातकानां प्रनृत्यत्। ऊर्ध्वं विन्यस्तचञ्चूपुटमुपरि परिभ्राम्यदुत्पातवातैरम्भोदोन्मुक्तमम्भःकणमपि न चिरात्प्राप्य नम्रं मिथोऽभूत्॥ 21 ॥