पार्श्वास्फालावलेपाच्चटुलितचरणोल्लेखिताकाशदेशः सङ्घट्टाटोपकोपप्रसरितरसनापल्लवालीढसृक्कः। किञ्चित्साचीकृतास्यः स्पुरदधरपुटः स्फारिताताम्रचक्षुर्घोणाघाताभिलाषादपसरति रुषं दर्शयन्नेष मेषः॥ 19 ॥