घ्रात्वा श्रोणीमजाया विततमभिमुखं वक्त्रसङ्कोचभङ्गं स्थित्वा सूर्यं निरीक्ष्य प्रविकसितसटो घट्टयन्क्ष्मां खुरेण। बोबोकारान्प्रकुर्वन्मणिशकलनिभं चालयन्नेत्रयुग्मं छागश्चाटूननेकांश्चतुर इव विटो मन्मथान्धः करोति॥ 18 ॥