०९ धेनुः

आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः किञ्चित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः।
उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा विस्रंसत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि॥ 16 ॥