०८ महोक्षः

गर्जित्वा मेघधीरं प्रथममथ शनैर्मण्डलीकृत्य देहं शृङ्गाभ्यां भीषयन्तावभिमुखमवनीं दारयन्तौ खुराग्रैः।
मन्दं मन्दं समेत्य स्थिरनिहितपदं दत्तघातौ सरोषं युध्येते चालयन्तौ कुटिलितमसकृत्पुच्छमेतौ महोक्षौ॥ 15 ॥