०६ हयः

यावच्छकलितो वायुरेकीभवितुमर्हति।
तावदेव तुरङ्गोऽयमाजगाम जगाम च॥ 9 ॥
मण्डले मण्डलाकारो रेखा वाजीमयी जवे।
सव्यापसव्ये द्विमुखो नकुलाधिष्ठितो हयः॥ 10 ॥
पुरो नुन्नः पश्चाद्व्रजति विधृतश्चोच्छ्रिततनुः समुत्पत्त्योत्तानः पतति पथि लोकान्प्रविशति।
हयः किञ्चिद्गच्छेद्यदि नयति पत्तिं क्वचिदहो कशाघाते तिष्ठत्यथ चरणघातेन खनति॥ 11 ॥
आकर्षन्निव गां वमन्निव खुरौ पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशो वायूंश्च मुष्णन्निव।
साङ्गारप्रकरां स्पृशन्निव भुवं छायाममृष्यन्निव प्रेङ्खच्चामरवीज्यमानवदनः श्रीमान्हयो धावति॥ 12 ॥
पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैरासज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण॥ 13 ॥