अम्भोमुचां सलिलमुद्वमतां निशीथे तालीवनेषु निभृतं स्थिरकर्णतालाः। आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवान्दशनकोटिनिषण्णहस्ताः॥ 6 ॥