गर्जन्हरिः साम्भसि शैलकुञ्जे प्रतिध्वनीनात्मकृतान्निशम्य।
पदं बबन्ध क्रमितुं सरोषः प्रतर्कयन्नन्यमृगेन्द्रनादम्॥ 1 ॥
लीढग्रस्तविपाण्डुराग्रनखयोराकर्णदीर्णं मुखं विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्नद्विपः।
एतस्मिन्मदगन्धवासितसटः सावज्ञतिर्यक्चलत्सृक्वान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः॥ 2 ॥
पश्योदञ्चदवाञ्चदञ्चितवपुः पश्चार्धपूर्वार्धभाक्स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत्।
दंष्ट्राकोटिविशङ्कटास्यकुहरः कुर्वन्सटामुत्कटामुत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केसरी॥ 3 ॥
उत्कर्णोऽयमकाण्डचण्डिमपटुः स्फारस्फुरत्केसरः क्रूराकारकरालवक्रविकटस्तब्धोर्ध्वलाङ्गूलभृत्।
चित्रेणापि न शक्यतेऽभिलिखितुं सर्वाङ्गसङ्कोचनाच्चीत्कुर्वद्गिरिकुञ्जकुञ्जरशिरःकुम्भस्थलस्थो हरिः॥ 4 ॥