भारतं चेक्षुदण्डं च सिन्धुमिन्दु च वर्णय।
पादमेकं प्रदास्यामि प्रतिपर्वरसोदयः॥ 1 ॥
कियन्मात्रं जलं विप्र जानुदघ्नं नराधिप।
तथापी यमवस्था ते न हि सर्वे भवादृशाः॥ 2 ॥
1अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित्॥ 3 ॥
भूरिभारभराक्रान्तो बाधति स्कन्ध एष ते।
न तथा बाधते स्कन्धो यथा बाधति बाधते॥ 4 ॥
निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्।
उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन॥ 5 ॥
अङ्गणं तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरेः।
उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः॥ 6 ॥
इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः।
इदमपि न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा॥ 7 ॥
यदेतच्चन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा।
अहं त्विन्दुं मन्ये त्वदरिविरहाक्रान्ततरुणीकटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम्॥ 8 ॥
भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना स रामो मे स्थाता न युधि पुरतो लक्ष्मणसखः।
इयं यास्यत्युच्चैर्विपदमधुना वानरचमूर्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः॥ 9 ॥
अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मधुगन्धमत्तमधुपाः क्रोधोद्धताः सिन्धुराः।
अश्वानामयुतं प्रपञ्चचतुरं पण्याङ्गनानां शतं दण्डे पाण्ड्यनृपेणढौकितमिदं वैतालिकायार्पणम्॥ 10 ॥
-
पूर्वार्धं भोजराजस्योक्तिः. उत्तरार्धं तु कालिदासस्य प्रत्युक्तिः. ↩︎