पूजायां किं पदं प्रोक्तमस्तनं को बिभर्त्यरः।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः॥ 1 ॥
को दुराढ्यस्य मोहाय का प्रिया मुरविद्विषः।
पदं प्रश्नवितर्के किं को दन्तच्छदभूषणम्॥ 2 ॥
पक्षिश्रेष्ठसखीबभ्रूसुरा वाच्याः कथं वद।
ज्येष्ठे मासि गताः शोषं कीदृश्योऽल्पजला भुवः॥ 3 ॥
विश्वंभराप्रलम्बघ्नव्रीहिमानुषसंयुगाः।
कथं वाच्या भवन्त्येता दिनान्ते विकसन्ति काः॥ 4 ॥
अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये।
प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम्॥ 6 ॥
कीदृक्किं स्यान्न मत्स्यानां हितं स्वेच्छाविहारिणाम्।
गुणैः परेषामत्यर्थं मोदते कीदृशः पुमान्॥ 7 ॥
अगस्त्येन पयोराशेः कियत्किं पीतमुज्झितम्।
त्वया वैरिकुलं वीर समरे कीदृशं कृतम्॥ 8 ॥
के स्थिराः के प्रियाः स्त्रीणां कोऽप्रियो नक्तमाह्वय।
नृत्यभूः कीदृशी रम्या नदी कीदृग्घनागमे॥ 9 ॥
का कृता विष्णुना कीदृग्योषितां कः प्रशस्यते।
असेव्यः कीदृशः स्वामी को निहन्ता निशातमः॥ 10 ॥
लक्ष्मणेत्युत्तरं यत्र प्रश्नः स्यादत्र कीदृशः।
ग्रीष्मे द्विरदवृन्दाय वनाली कीदृशी हिता॥ 11 ॥
प्रायः कार्ये न मुह्यन्ति नराः सर्वत्र कीदृशाः।
नाधा इति भवेच्छब्दो नौवाची वद कीदृशः॥ 12 ॥
कामुकाः स्युः कया नीचाः सर्वः कस्मिन्प्रमोदते।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किम्॥ 13 ॥
को दुःखी सर्वकार्येषु किं भृशार्थस्य वाचकम्।
यो यस्माद्विरतो नित्यं ततः किं स करिष्यति॥ 14 ॥
वारणेन्द्रो भवेत्कीदृक्प्रीतये भृङ्गसंहतेः।
यद्यवश्यं तदास्मै किमकरिष्यमहं धनम्॥ 15 ॥
काले देशे यथायुक्तं नरः कुर्वन्नुपैति काम्।
भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यताम्॥ 16 ॥
हिमानीस्थगिरौ स्यातां कीदृशौ शशिभास्करो।
कः पूज्यः कः प्रमाणेभ्यो न प्रभाकरसंमतः॥ 17 ॥
के प्रवीणाः कुतो हीनं जीर्णं वासोंऽशुमांश्च कः।
निराकरिष्णवो बाह्यं 1योगाचाराश्च कीदृशाः॥ 18 ॥
न श्लाघते खलः कस्मै सुप्तिङतं किमुच्यते।
लादेशानां नवानां च तिङां किं नाम कथ्यताम्॥ 19 ॥
सततं श्लाघते कस्मै नीचो भुवि किमुत्तमम्।
कर्तर्यपि रुचादीनां धातूनां किं पदं भवेत्॥ 20 ॥
किमव्ययतया ख्यातं कस्य लोपो विधीयते।
ब्रूत शब्दविदो ज्ञात्वा समाहारः क उच्यते॥ 21 ॥
कौ विख्यातावहेः शत्रू शोकं वदति किं पदम्।
कोऽभीष्टोऽतिदरिद्रस्य सेव्यन्ते के च भिक्षुभिः॥ 22 ॥
किं मुञ्चन्ति पयोवाहाः कीदृशी हरिवल्लभा।
पूजायां किं पदं कोऽग्निः कः कृष्णेन हतो रिपुः॥ 23 ॥
वद वल्लभ सर्वत्र साधुर्भवति कीदृशः।
गोविन्देनानसि क्षिप्ते नन्दवेश्मनि काभवत्॥ 24 ॥
यत्नादन्विष्य का ग्राह्या लेखकैर्मसि1मल्लिका।
घनान्धकारे निःशङ्कं मोदते केन बन्धकी॥ 25 ॥
किमनन्ततया ख्यातं पादेन व्यङ्गमाह्वय।
जनानां लोचनानन्दं के तन्वन्ति घनात्यये॥ 26 ॥
प्रायेण नीचलोकस्य कः करोतीह गर्वताम्।
आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः॥ 27 ॥
सानुजः काननं गत्वा नैकषेयाञ्जघान कः।
मध्ये वर्णत्रयं दत्त्वा रावणः कीदृशो वद॥ 28 ॥
धत्ते वियोगिनीगण्डस्थलपाण्डुफलानि का।
वद वर्णौ विधायान्ते सीता हृष्टा भवेत्कया॥ 29 ॥
विष्णोः का वल्लभा देवी लोकत्रितयपावनी।
वर्णावाद्यन्तयोर्दत्त्वा कः शब्दस्तुल्यवाचकः॥ 30 ॥
पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः।
मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात्सुरालयः॥ 31 ॥
यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते।
विहायाद्यन्तयोर्वर्णौ गोत्वं कुत्र स्थितं वद॥ 32 ॥
नीचेषु यावनी वाणी का कः स्याच्छुभदो जने।
शंभोरावरणं किं कं भजन्ते व्याधयो जनम्॥ 33 ॥
कस्मिन्स्वपिति कंसारिः का वृत्तिरधमा नृणाम्।
किं ब्रूते पितरं बालः किं दृष्ट्वा रमते मनः॥ 34 ॥
किमिच्छति नरः काश्यां भूपानां को रणे हितः।
को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम्॥ 35 ॥
भागीरथी कथंभूता कामिनी प्राह किं प्रियम्।
1एकमेवोत्तरं देहि शास्त्रलौकिकभाषया॥ 36 ॥
बुधः कीदृग्वचो ब्रूते को रोगी कश्च नास्तिकः।
कीदृक्चन्द्रं नमस्यन्ति किं सूत्रं पाणिनेर्वद॥ 37 ॥
राज्ञः सम्बोधनं किं स्यात्सुग्रीवस्य तु का प्रिया।
अधनास्तु किमिच्छन्ति आर्तैः किं क्रियते वद॥ 38 ॥
किमस्ति यमुनानद्यां जारान्किं वक्ति जारिणी।
आन्ध्रगीर्वाणभाषाभ्यामेकमेवोत्तरं वद॥ 39 ॥
का कान्ता कालियारतेः पुनरर्थे किमव्ययम्।
किं वन्द्यं सर्वदेवानां फलेषु किमु सुन्दरम्॥ 40 ॥
केदारे कीदृशो मार्गः कुत्र शेते जनार्दनः।
स्त्रीचित्तं कुत्र रमते स्वामी किं वक्ति चेटिकाम्॥ 41 ॥
घनसमये शिखिषु स्यान्नृत्यं कीदृक्षु किं घनात्पतति।
प्रावृषि कस्य न गमनं मानसगमनाय कीदृशा हंसाः॥ 42 ॥
चादय इति यत्र स्यादुत्तरमथ तत्र कीदृशः प्रश्नः।
कथय त्वरितं के स्युर्नौकाया वाहनोपायाः॥ 43 ॥
वदतानुत्तमवचनं ध्वनिरुच्चैरुच्यते स कीदृक्षः।
तव सुहृदो गुणनिवहै रिपुनिवहं किं नु कर्तारः॥ 44 ॥
को माद्यति मकरन्दैस्तनयं कमसूत जनकराजसुता।
कथय कृषीवल सस्यं पक्वं किमचीकरस्त्वमपि॥ 45 ॥
पृच्छति पुरुषः केऽस्यां समभूवन्वज्रकृत्तपक्षतयः।
बहुभयदेशं जिगमिषुरेकाकी वार्यते स कथम्॥ 46 ॥
को नयतिजगदशेषं क्षयमथ बिभरांबभूव कं विष्णुः।
नीचः कुत्र सगर्वः पाणिनिसूत्रं च कीदृक्षम्॥ 47 ॥
किं स्याद्विशेष्यनिष्ठं का सङ्ख्या वदत पूरणी भवति।
नीचः केन सगर्वः सूत्रं चन्द्रस्य कीदृक्षम्॥ 48 ॥
सुकपरिविन्दः शब्दः सुब्रह्मण्यस्य वाचकः केन।
स्तनभरनमिता नारी केनोपायेन रञ्जयेत्कान्तम्॥ 49 ॥
कीदृग्गृहं याम्यगृहं गतस्य कास्त्राणमम्भस्तरणे जनानाम्।
भूषा कथं कण्ठ न ते नु पृष्टे मुक्ताकलापैरिति चोत्तरं किम्॥ 50 ॥
कीदृग्वनं स्यान्न भयाय पृष्टे यदुत्तरं तस्य च कीदृशस्य।
वाच्यं भवेदीक्षणजातमम्बु कं चाधिशेते गवि कोऽर्चनीयः॥ 51 ॥
दधौ हरिः कं शुचि कीदृगभ्रं पृच्छत्यकः किं कुरुते सशोकः।
श्लोकं विधायापि किमित्युदारः कविर्न तोषं समुपैति भूयः॥ 52 ॥
लक्ष्मीधऱः पृच्छति कीदृशः स्यान्नृपः सपत्नैरपि दुर्निवारः।
अकारि किं ब्रूहि नरेण सम्यक्पितृत्वमारोपयितुं स्वकीयम्॥ 53 ॥
कीदृशं वद मरुस्थलं मतं द्वारि कुत्र सति भूषणं भवेत्।
ब्रूहि कान्त सुभटः सकार्मुकः कीदृशो भवति कुत्र विद्विषाम्॥ 54 ॥
का प्रियेण रहिता वराङ्गना धाम्नि केन तनयेन नन्दिता।
कीदृशेन पुरुषेण पक्षिणां बन्धनं समभिलष्यते सदा॥ 55 ॥
कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः।
कस्तवास्ति विपिने भयाकुलः कीदृशश्च न भवेन्निशाकरः॥ 56 ॥
कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः।
प्रेतराक्षसपिशाचसेविता कीदृशी च पितृकाननस्थली॥ 57 ॥
केसरद्रुमतलेषु संस्थितः कीदृशो भवति मत्तकुञ्जरः।
तत्त्वतः शिवमपेक्ष्य लक्षणैरर्जुनः समिति कीदृशो भवेत्॥ 58 ॥
निर्जितसकलारातिः पृच्छति को नैको मृत्योर्भयमृच्छति।
मेघात्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः॥ 59 ॥
विहगपतिः कं हतवानहितं कीदृग्भवति पुरं जनमहितम्।
किं कठिनं विदितं वद धीमन्यादःपतिरपि कीदृग्भयकृत्॥ 60 ॥
अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः।
विरहिण्यपि जानकी वने निपसन्ती मुदमादधौ कुतः॥ 61 ॥
कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः।
अधिगम्य रतं वराङ्गा क्व नु यत्नं कुरुते सुशिक्षिता॥ 62 ॥
कवयो वद कुत्र कीदृशाः कठिनं किं विदितं समन्ततः।
अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः॥ 63 ॥
वसति कुत्र सरोरुहसन्ततिर्दिनकृतो ननु के तिमिरच्छिदः।
पवनभक्षसपत्नरणोत्सुकं पुरुषमाह्वय को जगति प्रियः॥ 64 ॥
न भवति मलयस्य कीदृशी भूः क इह कुंच न बिभर्ति कं गता श्रीः।
भवदरिनिवहेषु कास्ति नित्यं बलमथनेन विपद्व्यधायि केषाम्॥ 65 ॥
समयमिह वदन्ति कं निशीथं शमयति कान्वद वारिवाहवृन्दम्।
वितरति जगतां मनःसु कीदृङ्मुदमतिमात्रमयं महातडागः॥ 66 ॥
किमकरवमहं हरिर्महीध्रं स्वभुजबलेन गवां हितं विधित्सुः।
प्रियतमवदनेन पीयते कः परिणतबिम्बफलोपमः प्रियायाः॥ 67 ॥
परिहरति भयात्तवाहितः किं कमथ कदापि न विदन्तीह भीतः।
कथय किमकरोरिमां धरित्रीं नृपतिगुणैर्नृपते स्वयं त्वमेकः॥ 68 ॥
पृच्छति शिरसिरुहो मधुमथनं मधुमथनस्तं शिरसिरुहं च।
कः खलु चपलतया भुवि विदितः का ननु यानतया गवि गदिताः॥ 69 ॥
कीदृक्तोयं दुस्तरं स्यात्तितीर्षोः का पूज्यास्मिन्खड्गमामन्त्रयस्व।
दृष्ट्वा धूमं दूरतो मानविज्ञाः किं कर्तास्मि प्रातरेवाश्रयाशम्॥ 70 ॥
कीदृक्प्रातर्दीपवर्तेः शिखा स्यादुष्ट्रः पृच्छत्याभजन्ते मृगाः किम्।
देवामात्ये किं गते प्रायशोऽस्मिंल्लोकः कुर्यान्नो विवाहं विविक्तः॥ 71 ॥
कीदृक्सेना भवति रणे दुर्वारा वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन्।
का सम्बुद्धिर्भवति भुवः सङ्ग्रामे किं कुर्वीध्वं सुभटजना भ्रातृव्यान्॥ 72 ॥
कंसारातेर्वद गमनं केन स्यात्कस्मिन्दृष्टिं लभते स्वल्पेच्छुः।
कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं लोकम्॥ 73 ॥
कीदृक्षः सकलजनो भवेत्सुराज्ञः कः कालो विदित इहान्धकारहेतुः।
कः प्रेयान्कुमुदवनस्य को निहन्ति भ्रातृव्यं वद शिरसा जितस्त्वया कः॥ 74 ॥
सङ्ग्रामे स्पुरदसिना हतास्त्वया के दुःखं के बत निरये नरस्य कुर्युः।
कस्मिन्नुद्भवति कदापि नैव लोम ज्ञाताः के जगति महालघुत्वभाजः॥ 75 ॥
कीदृक्षं समिति बलं निहन्ति शत्रुं विष्णोः का मनसि मुदं सदा तनोति।
तुच्छं सच्छरधिमुखं निगद्यते किं पञ्चत्यैः सममपमान एव केषु॥ 76 ॥
कामरिरहितामिच्छति भूपः कामुद्धरयति शूकररूपः।
केनाकारि हि मन्मथजननं केन विभाति च तरुणीवदनम्॥ 77 ॥
हिमांशुकण्डं कुटिलोज्ज्वलप्रभं भवेद्वराहप्रवरस्य कीदृशम्।
विहाय वर्णं पदमष्यसंस्थितं न किं करोत्येव जिनः करोति किम्॥ 78 ॥
वसन्तमासाद्य वनेषु कीदृशा पिकेन राजन्ति रसालभूरुहाः।
निरस्य वर्णद्वयमत्र मध्यमं तव द्विषां कान्ततमा तिथिश्च का॥ 79 ॥
उरःस्थलं कोऽत्र विना पयोधरं बिभर्ति सम्बोधय मारुताशनम्।
वदन्ति कं पत्तनसम्भवं जनाः फलं च किं गोपवधूकुचोपमम्॥ 80 ॥
वसन्तमासाद्य वनेषु राजते विकासि किं वल्लभ पुष्पमुच्यताम्।
विहङ्गमं कं च परिस्फुटाक्षरं वदन्ति किं पङ्कजसम्भवं विदुः॥ 81 ॥
समुद्यते कुत्र न याति पांसुला समुद्यते कुत्र भयं भवेज्जलात्।
समुद्यते कुत्र तवापयात्यरिः प्रहीणसम्बोधनवाचि किं पदम्॥ 82 ॥
तपस्विनोऽत्यन्तमहासुखाशया वनेषु कस्मै स्पृहयन्ति सत्तमाः।
इहापि वर्णद्वितयं निरस्य भोः सदा स्थितं कुत्र च सत्वमुच्यताम्॥ 83 ॥
पदमनन्तरवाचि किमिष्यते कपिपतिर्विजयी ननु कीदृशः।
परगुणं गदितुं गतमत्सराः कुरुत किं सततं भुवि सज्जनाः॥ 84 ॥
वदति राममनुष्य जघन्यजो वसति कुत्र सदालसमानसः।
अपि च शक्रसुतेन तिरस्कृतो रविसुतः किमसौ विदधे त्वया॥ 85 ॥
मेघात्यये भवति कः समदः सुभगं च किं कमधरन्मुरजित्।
कटुतैलमिश्रितगुडो नियतं विनिहन्ति कं त्रिगुणसप्तदिनैः॥ 86 ॥
वर्षासु का भवति निर्मधु कीदृगब्जं शेषं बिभर्ति वसुधासहितं क एकः।
आमन्त्रयस्व धरणीधरराजपुत्रीं को भूतिभस्मनिचिताङ्गजनाश्रयः स्यात्॥ 87 ॥
कौ शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति
कौ शंकरस्य वलयावपयोधरः कः कीदृक्परस्य नियतं वशमेति भूपः।
सम्बोधयोरगपतिं विजयी च कीदृग्दुर्योधनो नहि भवेद्वद कीदृशश्च॥ 88 ॥
कामुज्जहार हरिरम्बुधिमध्यमग्नां कीदृक्श्रुतं भवति निर्मलमानसानाम्।
आमन्त्रयस्व वनमग्निशिखावलीढं तच्चापि को दहति के मदयन्ति भृङ्गान्॥ 89 ॥
मेघात्यये भवति किं सुभगावगाहं का वा विडम्बयति वारणमल्लवेश्याः।
दुर्वारवीर्यविभवस्य भवेद्रणे कः काः स्मेरवक्त्रसुभगास्तरणिप्रभाभिः॥ 90 ॥
कल्याणवाक्त्वमिव किं पदमत्र कान्तं सद्भूपतेस्त्वमिव कः परितोषकारी।
कः सर्वदा वृषगतिस्त्वमिवातिमात्रं भूत्याश्रितः कथय पालितसर्वभूतः॥ 91 ॥
सूर्यस्य का तिमिरकुञ्जरवृन्दसिंही सत्यस्य का सुकृतवारिधिचन्द्रलेखा।
पार्थश्च कीदृगरिदावहुताशनोऽभूत्का मालतीकुसुमदाम हरस्य मूर्ध्नि॥ 92 ॥
मेघात्यये भवति का सुभगावगाहा वृत्तं वसन्ततिलकं कियदक्षराणाम्।
भो भोः कदर्यपुरुषा विषुवद्दिने च वित्तं च वः सुबहु तत्क्रियतां किमेतत्॥ 93 ॥
प्राप्ते वसन्तसमये वद किं तरूणां किं क्षीयते विरहिणामुरगः किमेति।
किं कुर्वते मधुलिहो मधुपानमत्ताः कीदृग्वनं मृगगणास्त्वरितं त्यजन्ति॥ 94 ॥
दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता 1श्यामा सपत्नहृदये 2सुपयोधरा च।
तुष्टे पुनः प्रणतशत्रुसरोजसूर्ये सैवाद्यवर्णरहिता वद नाम का स्यात्॥ 95 ॥
उरसि 3मुरभिदः का गाढमालिङ्गितास्ते सरसिजमकरन्दामोदिता नन्दने का।
गिरिसमलघु4वर्णैरर्णवाख्यातिसंख्यैर्गुरुभिरपि कृता का छन्दसां वृत्तिरस्ति॥ 96 ॥
समरशिरसि सैन्यं कीदृशं दुर्निवारं विगतघननिशीथे कीदृशे व्योम्नि शोभा।
कमपि विधिवशेन प्राप्य योग्याभिमानं जगदखिलमनिन्द्यं दुर्जनः किं करोति॥ 97 ॥
भवति गमनयोग्या कीदृशी भू रथानां किमतिमधुरमम्लं भोजनान्ते प्रदेयम्।
प्रियतम वद नीचामन्त्रणे किं पदं स्यात्कुमतिकृतविवादाश्चक्रिरे किं समर्थै)ः॥ 98 ॥
भवति जयिनी काजौ सेनाह्वयाधरभूषणं वहति किमहिः पुष्पं कीदृक्कुसुम्भसमुद्भवम्।
महति समरे वैरी वीर त्वया वद किं कृतः कमलमुकुले भृङ्गः कीदृक्पिबन्मधु राजते॥ 99 ॥
आह्वानं किं भवति हि तरोः कस्यचित्प्रश्नविज्ञाः प्रायः कार्यं किमपि न कलौ कुर्वते के परेषाम्।
पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याजनितमसमं कष्टमापनोति लोकः॥ 100 ॥
का सम्बुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्प्रातः कीदृग्भवति विपिनं संप्रबुद्धैर्विहङ्गैः।
लोकः कस्मिन्प्रथयति मुदं का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन॥ 101 ॥
गतक्लेशायासा विमलमनसः कुत्र मुनयस्तपस्यन्ति स्वस्थाः सुररिपुरिपोः का च दयिता।
1कविप्रेयः किं स्यान्नवलघुयुतैरष्टगुरुभिर्बुधा वृत्तं वर्णैः स्फुटघटितबन्धं कथयत॥ 102 ॥
बिभर्ति वदनेन किं क इह सत्त्वपीडाकरं कुलं भवति कीदृशं गलितयौवनं योषिताम्।
बभार हरिरम्बुधेरुपरि कां च केन स्तुतो हतः कथय कस्त्वया नगपतेर्भयं कीदृशात्॥ 103 ॥
हरिर्वहति कां तवास्त्यरिषु का गता कं च का कमर्चयति रोगवान्धनवती पुरी कीदृशी।
हरिः कमधरद्बलिप्रभृतयो धरां किं व्यधुः कया सदसि कस्त्वया बुध जितोऽम्बुधिः कीदृशः॥ 104 ॥
पवित्रमतितृप्तिकृत्किमिह किं भटामन्त्रणं ब्रवीति धरणीधरश्च किमजीर्णसम्बोधनम्।
हरिर्वदति को जितो मदनवैरिणा संयुगे करोति ननु कः शिखण्डिकुलताण्डवाडम्बरम्॥ 105 ॥
को मोहाय दुरीश्वरस्य विदितः सम्बोधनीयो गुरुः को धात्र्यां विरलः कलौ नवधनः किंवन्न कीदृग्द्विजः।
किं लेखावचनं भवेदतिशयं दुःखाय कीदृक्खलः को विघ्नादिपतिर्मनोभवसमो मूर्त्या पुमान्कीदृशः॥ 106 ॥
कामिन्याः स्तनभारमन्थरगतेर्लीलाचलच्चक्षुषः कन्दर्पैकविलासनित्यवसतेः कीदृक्पुमान्वल्लभः।
हेलाकृष्टकृपाणपाटितगजानीकात्कुतस्तेऽरयः श्वासायासविशुष्ककण्ठकुहरा निर्यान्ति जीवार्थिनः॥ 107 ॥
दैत्यारातिरसौ वराहवपुषा कामुज्जहाराम्बुधेः का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः।
स्वच्छन्दं नवसल्लकीकवलनैः पम्पासरोमज्जनैः के विन्ध्याद्रिवने वसन्त्यभिमतक्रीडाभिरामस्थिताः॥ 108 ॥
का चक्रे हरिणा धने कृपणधीः कीदृग्भुजङ्गेऽस्ति किं कीदृक्कुम्भसमुद्भवस्य जठरं कीदृग्यियासुर्वधूः।
श्लोकः कीदृगभीप्सितः सुकृतिनां कीदृङ्नभो निर्मलं क्षोणीमाह्वय सर्वगं किमुदितं रात्रौ सरः कीदृशम्॥ 109 ॥
मुण्डः पृच्छति किं मुरारिशयनं का हन्ति रूपं नृणां कीदृग्वीरजनश्च कोऽतिगहनः सम्बोधयावञ्चितम्।
का धात्री जगतो बृहस्पतिवधूः कीदृक्कविः क्वादृतः कोऽर्थः किं भवता कृतं रिपुकुलं कीदृक्सरो वासरे॥ 110 ॥
कस्मै यच्छति सज्जनो बहुधनं सृष्टं जगत्केन वा शम्भोर्भाति च को गले युवतिभिर्वेण्यां च का धार्यते।
गौरीशः कमताडयच्चरणतः का रक्षिता राक्षसैरारोहादवरोहतः कलयतामेकं द्वयोरुत्तरम्॥ 111 ॥
कः स्यादम्बुदयाचको युवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते निकटके दासे कथं यावनी।
भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेदाद्यन्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्यताम्॥ 112 ॥
का मेघादुपयाति कृष्णदयिता का वा सभा कीदृशी कां रक्षत्यहिहा शरद्विकचयेत्कं धैर्यहन्त्री च का।
कं धत्ते गणनायकः करतले का चञ्चला कथ्यतामारोहादवरोहतश्च निपुणैरेकं द्वयोरुत्तरम्॥ 113 ॥
कुत्र श्रीः स्थिरतामुपैति भुवि को दुःखी किमीषत्पदं धर्मादीन्विनिवारयन्ति पथि के पान्थस्य दीनस्य च।
का सम्बुद्धिरिह श्रियश्च तमसः कौ नाशकौ प्रोच्यतां गच्छन्तं पथिकं किमाह यवनः सङ्गाभिलाषान्वितः॥ 14 ॥
कः खे भाति हतो निशाचरपतिः केनाम्बुधौ मज्जति कः कीदृक्तरुणीविलासगमनं को नाम राज्ञां प्रियः।
पत्रं किं नृपतेः किमप्सु ललितं को रामरामाहरो मत्प्रश्नोत्तरमध्यमाक्षरपदं यत्तत्तवाशीर्वचः॥ 115 ॥
किं त्राणं जगतां न पश्यति च कः के देवताविद्विषः किं दातुः करभूषणं निरुदरः कः किं पिधानं दृशाम्।
के खे खेलनमाचरन्ति सुदृशां किं चारुताभूषणं बुद्ध्या ब्रूहि विचार्य सूक्ष्ममतिमंस्त्वेकं द्वयोरुत्तरम्॥ 116 ॥
कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य तुक्को जानाति परेङ्गितं विषमगुः कुत्रोदभूत्कामिनाम्।
भार्या कस्य विदेहजा तुदति का भौमेऽह्नि निन्द्यश्च कस्तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसम्पत्करम्॥ 117 ॥
लावण्यं क्व नु योषितां नभसि के सञ्चारमातन्वते कासामुच्चरता भवन्ति निनदाः क्व क्रीडतो दम्पती।
केषु श्रीः प्रकटीचकार भगवान्सीतापतिः पौरुषं मत्प्रश्नोत्तरमध्यवर्णघटितो देवो मुदे सोऽस्तु वः॥ 118 ॥
कः पूज्यः सुजनत्वमेति कतमः क्व स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणम्।
किं वाञ्छन्ति सदा जना युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तवाशीर्वचः॥ 119 ॥
क्षोणीकं सहते करोति दिवि का नृत्यं शिवायाः पतिर्भूतानां कमयुङ्क्त जीवहरणे का रामशत्रोः पुरी।
कं रक्षन्ति च साधवः पशुपतेः किं वाहनं प्रोच्यतामालोमप्रतिलोमशास्त्रचतुरैरेकं द्वयोरुत्तरम्॥ 120 ॥
-
‘सुनासीरः.’ सुः पूजायाम्. ना पुरुषः. सीरो हलम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
-
‘रामानुरागः.’ राः धनम्. मा लक्ष्मीः. नु इति वितर्के. रागः आरक्तत्वम्. ↩︎
-
‘विवरालीनकुलीराः.’ विः पक्षी. वरं श्रेष्ठम्. आली सखी. नकुली नकुलस्त्री. इरा मदिरा. विवरेषु छिद्रेषु आलीनाः प्रविष्टाः कुलीराः जलचरजीवविशेषा यासु ताः. ↩︎
-
‘कुवलयवनराजयः’ कुः पृथ्वी. (बवयोरैक्यात् बलो बलभद्रः. यवो धान्यभेदः. नरो मनुष्यः. आजिः सङ्ग्रामः. कुवलयानां कमलानां वनानां राजयः पङ्क्तयः.)
आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः॥ 5 ॥ ↩︎